________________
[पा० २. सू० ३१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
"आधारस्त्रिविधो ज्ञेयः कटा -ऽऽकाश - तिलादिषु । पश्लेषिको वैषयिकोऽभिव्यापक एव च ।। १ ।।”
अस्थिं तृणादि
अक्ष्णोः प्रतिवसतीति - यथा योऽपीत्यर्थः ।। २. २. ३० ।।
[ २३७
दुःखकारि तथा
नाम्नः प्रथमैक-वि-बहौ ।। २. २. ३१ ।।
एकत्व-द्वित्व- बहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः परा यथासंख्यं 'सि-ओजस्' लक्षणा प्रथमा विभक्तिर्भवति । कर्मादिशक्तिषु द्वितीयादिविभक्तीनां विधास्यमानत्वादिह विशेषानभिधानाच्च परिशिष्टेऽर्थमात्रे प्रथमेति विज्ञायते । तत्र द्वितीयादिविनिर्मुक्तः स्वार्थ- द्रव्य - लिङ्ग-संख्या - शक्तिलक्षणोऽसमग्रः समग्रो वा पञ्चको नामार्थोऽर्थमात्रम्, तेषु शब्दस्यार्थे प्रवृत्तिनिमित्तं स्वरूप-जाति- 10 गुण-क्रिया-द्रव्य-सम्बन्धादिरूपं त्व- तलादिप्रत्ययाभिधेयं स्वार्थः, स च भावो विशेषणं गुण इति चाख्यायते - डित्थः, डवित्थः, गौः, अश्वः, शुक्लः, कृष्णः; कारकः, पाचकः, दण्डी, विषाणी, राजपुरुषः, औपगवः, गर्गाः, पञ्चालाः ; यत् पुनरिदं तदित्यादिना वस्तूपलक्षणेन सर्वनाम्ना व्यपदिश्यते, स्वार्थस्य व्यवच्छेद्यं लिङ्ग-सङ्ख्या-शक्त्याद्याश्रयः सत्त्वभूतं तद् द्रव्यं विशेष्यमिति चाख्यायते - इयं 15 जातिः, अयं गुणः, इदं कर्मेति यदर्थे सदसद् वा शब्दत एवावसीयते तत् ङयाबादिसंस्कार हेतुः स्त्री पुमान् नपुंसकमिति लिङ्गम् - स्त्री, पुमान्, नपुंसकम्, पट्वी, खट्वा, युवतिः; यस्यामेकवचन द्विवचन बहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका सङ्ख्या - एकः द्वौ बहवः; वृक्षः, वृक्षौ, वृक्षाः,
" निमित्तमेक इत्यत्र विभक्त्या नाभिधीयते । तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते " ।। १ ।।
5
20
यस्यां त्यादिभिरनभिहितायां द्वितीयाद्या व्यतिरेकविभक्तयः षष्ठी च भवति, सा स्वपराऽऽश्रयाऽऽश्रितक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वकसम्बन्धरूपा च शक्तिः, सा चाभिहिताऽर्थमात्रम् - क्रियते कटः कृतः कटः, पचति चैत्र, स्नानीयं चूर्णम्, दानीयो ब्राह्मणः, गोघ्नोऽतिथिः, प्रस्रवणो गिरिः, भयानको 25 स्थानीयं नगरम्, गोदोहनी पारी, गोमान् मैत्रः, चित्रगुत्रः ।
व्याघ्रः,