________________
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० २. सू० २६. ]
.
भवतीत्यर्थः ; कार्तिक्या श्राग्रहायणी मासे, ततः प्रभृति मासे गते भवतीत्यर्थः ; उभयत्रापायः प्रतीयते । चैत्रान्मैत्रः पटुः प्रयमस्मादधिकः, प्रयमस्मादूनः, माथुराः पाटलिपुत्रकेभ्य श्राढ्यतराः, अत्र मैत्रादयः पुंस्त्वादिना संसृष्टाः पटुत्वादिधर्मेण ततो विभक्ताः प्रतीयन्ते इति सर्वत्राप्यपायविवक्षा । विवक्षान्तरे त्वपादानत्वाभावे यथायोगं विभक्तयो भवन्ति - बलाह के विद्योतते बलाहकं 5 विद्योतते, धर्मं जुगुप्सते, अधर्मेण जुगुप्सते, मौर्येण प्रमाद्यति, चौरैर्भयम्, चौरैबिभेति, चौरेषु बिभेति, चौराणां बिभेति, भोजनेन पराजयते, शत्रून् पराजयते, यवेषु गां वारयति; शृङ्ग शरो जायत इति ।। २६ ।।
२३४ ]
न्या० स० -- अपायेऽवधि० । “इण्क्” अपायनं “युवर्ण ०" [ ५.३.२८. ] इत्यलि, "अयि वयि०" धातुना भावाकर्घञि वा । अवधीयते - मर्यादीक्रियते बुद्धया 10 "उपसर्गाद्द: कि : " [ ५. ३. ८७ ] । गमनमिति - अपायहेतुत्वाद् गमनमप्यपायः, उपलक्षणं चेदं तेन - परमार्थतो विभागोऽपाय इति सिद्धम् । ग्रामादागच्छतीति-ग्रामादेरौदासीन्यमेवान्तरव्यापारः । सार्थाद्धीनः कर्मकर्तरि कर्मरिण वाऽत्र क्तप्रत्ययः । उपात्तविषयमिति - उप-समीपे धातुना धात्वन्तरस्यात्तः स्वीकृतो विषयोऽर्थो यत्र तत् । धात्वन्तरार्थाङ्गमिति - धात्वन्तरार्थोऽङ्ग - विशेषणं यस्य धात्वन्तरार्थस्य वाऽङ्गम् । निःसरणाङ्ग 15 इति-निःसरणं चापायरूपमिति भावः । यदा तु बलाहकान्निःसृत्य कुशूलादादायेति च निःसृत्या -ऽऽदायशब्दवन्तौ प्रयोगौ क्रियेते तदा विद्युति- पचिधातू केवले स्वार्थे विद्योतने विक्लेदने च वर्तेते, 'निःसरति, प्रददाति' क्रियापेक्षया तु बलाहक - कुशूलयोनिर्दिष्टविषयमपादानत्वम् । सांकाश्यकेभ्य इति - संकाशेन निर्वृत्तं "सुपन्थ्यादेर्भ्यः” [ ६.२. ८४. ], तत्र भवा:-“प्रस्थपुर०" [ ६. ३. ४३ . ] इत्यकञ्, अत्र निर्द्धार्यन्त इति क्रिया 20 प्रतीयते । अपायश्चेति - ननु कायसंसर्गपूर्वको विभागो मुख्यो बुद्धिपरिकल्पितस्तु गौरणः, ततश्च गौर - मुख्ययोर्मुख्यस्यैव परिग्रहात् सांकाश्यकेभ्य इत्यादौ कारकशेषत्वात् षष्ठी प्राप्नोति, नैवम् - " साधकतमं करणम्" [ २. २. २४. ] इत्यत्र तमग्रहणेन गौरणग्रहणस्यापि ज्ञापितत्वादुभयरूपस्यापि अपायस्य परिग्रह इति । अत्र माहेश्वरव्याकरणश्लोक:-“बुद्ध्येत्यादि । तथा चौरेभ्यो बिभेतीति प्रत्र बुद्धिकृतापायस्य विद्यमान - 25 त्वाद् “भीत्राणार्थानां धातूनां भयहेतुकमपादानम्" इति यदन्यैरुक्तं तदत्र न वक्तव्यम्, भयम्-आकुलीभावः, त्राणम् - अनर्थप्रतीघात इति । तेभ्यो निवर्त्तत इति -- निवृत्त्यङ्ग भये बिभेत्यादयो वर्त्तन्त इत्युपात्तविषयमेतदपादानत् । अध्ययनात् पराजयते, भोजनात् पराजयत इति - अत्र पराजिरसहने वर्तते, 'दुःखमध्ययनं दुर्वचं, गुरवश्च दुरुपचाराः, भोजनमपि व्याधितस्यातृप्तर्भुक्तवतो वा विरसत्वादिना दुःखम्' इति ततो निवर्त्तत इति 30 “पराजेरसोढेऽर्थे” इति न वक्तव्यम्, तत्रासोढग्रहरणात् पराजयतिरसहनार्थो गृह्यते न तु 'शत्रून् पराजयते' इतिवदभिभववृत्तिः । यवेभ्यो गां रक्षतीति प्रत्र "वारणार्थाना -