________________
[पा० २. सू० ३०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २३५
मीप्सितम्" इति न वक्तव्यम् । स्फुट एवेति-कायसंसर्गपूर्वक इत्यर्थः । शृङ्गाच्छरो जायत इति-उक्त च गोपुराणे
"गोलोमाज्जायते दूर्वा, गोमयाद् वृश्चिकः स्मृतः ।
गोदोहाद् गोरसं प्राहुर्गोशृङ्गादुच्यते शरः ॥ १।।"
यदि निष्कामन्तीति-अयमर्थः-यत् किल यतोऽपक्रामति तत् पुनस्तत्र न दृश्यत । इति प्रसिद्धम्, इह तु तत्र तस्यास्ति दर्शनमित्याह-प्रत्यन्तायेति-अत्यन्तमित्यर्थेऽव्ययं, क्रियाविशेषणत्वादम्। सन्ततत्वादिति-निष्क्रमणस्येति गम्यते, अयमर्थः-एकेऽवयवा निष्क्रान्तो अन्ये निष्क्रामन्तः सन्तोति, यथा बिलाइ दीर्घभोगो भोगी निष्क्रामन्नपि सन्ततत्वात् तत्रोपलभ्यते तथा शरादयोऽपीत्यर्थः । अन्यान्यप्रादुर्भावाद् वेति-अन्यावयवयोगात् समुदायोऽप्यन्यः, ततोऽन्यश्चासावन्यश्चेति कार्यम्, समाहारे तु “त्यदादिः"10 [३. १. १२०.] इत्यनेनैकशेषः स्यात् । गङ्गा प्रभवतीति-ततः प्रथममुपलभ्यत इत्यर्थः, अत्रापि “भुवः कर्तु : प्रभवोऽपादानम्" इत्यपि न वक्तव्यम् । अत्यन्तमिति अन्तमतिक्रान्तम् । षड् योजनानीति-अत्र षड्योजनरूपस्याध्वन: शत्रुञ्जय इत्यनेनाध्वनोऽन्तेन सह "गते गम्ये" [२.२.१०७.1 इति सत्रेण सामानाधिकरण्यं. तस्माच्च शत्रञ्जय इत्यस्मा या प्रथमा विभक्तिः सा योजनानीत्यत्रापीति । गतानीति-चैत्रेण का षड् योजनानि15 गतानि-अतिक्रान्तानीति योजनानां कर्मत्वम्, उपचाराद् योजनस्थनरगतापेक्षया योजनान्यपि गतशब्देनोच्यन्त इति तेषां कर्तृत्वं वा। गतेष्विति-अतिक्रान्तेष्वित्यर्थः । प्राग्रहायणीति-अग्रं हायनस्य "पूर्वपदस्थात्" [२. ३. ६४.] इति णत्वम्, अग्रहायणेनमृगशिरसा चन्द्रयुक्त न युक्ता पौर्णमासी “चन्द्रयुक्ता." [६.२.६.] इत्यण । बलाहकमितितं प्राप्यान्तर्भूतण्यर्थो वा ।। २. २. २६ ॥
क्रियाश्रयास्याsधारोऽधिकरणम् ॥ २. २. ३० ॥
क्रियाऽऽश्रयस्य कर्तुः कर्मणो वा य आधारस्तत् कारकमधिकरणसंज्ञं भवति, अत्रापि प्रसिद्धाऽनुवादेनाप्रसिद्धस्य विधानमिति यत् क्रियाऽश्रयस्याधिकरणं तदाधारसंज्ञं भवतीत्यपि सूत्रार्थः । कटे प्रास्ते, स्थाल्यां पचति ; चैत्रसमवायिन्यामासिक्रियायां तदाश्रयं चैत्रं धारयन् कटादिर्हेतुतां प्रतिपद्यते,25 तण्डूलसमवायिन्यां च विचटनकियायां तदाश्रयांस्तण्डुलान् धारयन्ती स्थाली हेतुत्वं प्रतिपद्यत इत्युभयत्र कारकत्वम् । तत् षोढा-वैषयिकम्, प्रौपश्लेषिकम्, अभिव्यापकं, सामीप्यकम्, नैमित्तिकम् ; औपचारिकं च । तत्र अनन्यत्र भावो विषयः, तस्मै प्रभवति-वैषयिकम्-दिवि देवाः, नभसि तारकाः, भुवि मनुष्याः, पाताले पन्नगाः । एकदेशमात्रसंयोग उपश्लेषः, तत्र भवम्-प्रौपश्लेषिकम्-30 कटे प्रास्ते, पर्यत शेते, शाखायां लम्बते, गृहे तिष्ठति । यस्याधयेन
20