________________
[ पा० २. सू० २६. ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २३३
कुशूलात् पचति, अत्राप्यादाना पाके पचिर्वर्तत इति ; यत्र तु क्रियावाचि पदं न श्रूयते केवलं क्रिया प्रतीयते तदपेक्षितक्रियम्, यथा- सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतराः । श्रपायच कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वको वा विभाग उच्यते, तेन
"बुद्धया समीहितैकत्वान्, पञ्चालान् कुरुभिर्यदा । बुद्धया विभजते वक्ता, तदाऽपायः प्रतीयते ॥ इति,
5
अत्रापादानत्वं भवति; एवम् - अधर्माज्जुगुप्सते, अधर्माद् विरमति, धर्मात् प्रमाद्यति, अत्र यः प्रेक्षापूर्वकारी भवति स दुःखहेतुमधर्मं, बुद्धया प्राप्य नानेन कृत्यमस्तीति ततो निवर्तते, नास्तिकस्तु बुद्धया धर्मं प्राप्य नैनं करिष्यामीति ततो निवर्तत इति निवृत्त्यङ्गषु जुगुप्सा-विराम-प्रमादेष्वेते 10 धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोऽपायः । तथा चौरेभ्यो बिभेति, चौरेभ्य उद्विजते, चौरेभ्यस्त्रायते, चौरेभ्यो रक्षति, अत्र बुद्धिमान् वधबन्धपरिक्लेशकारिणश्चौरान् बुद्धया प्राप्य तेभ्यो निवर्तते, चौरेभ्यस्त्रायत इत्यत्रापि कश्चित् सुहृद् यदीमं चौराः पश्येयुर्नूनमस्य धनमपहरेयुरिति बुद्धया तं चौरैः, संयोज्य तेभ्यो निवर्तयतीत्यपाय एव । अध्ययनात् पराजयते, भोजनात् 15 पराजयते, अत्राध्ययनं भोजनं वाऽसहमानस्ततो निवर्तत इत्यपाय एव । यवेभ्यो गां रक्षति, यवेभ्यो गां निषेधयति, कूपादन्धं वारयति, इहापि गवादेर्यवादिसम्पर्कं बुद्धया समीक्ष्यान्यतरस्य विनाशं पश्यन् गवादीन् यवादिभ्यो निवर्तयतीत्यपाय एव । उपाध्यायादन्तर्धत्ते, उपाध्यायान्निलीयते, मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवतीत्यत्राप्यपायः । शृङ्गाच्छरो जायते, 20 गोमयाद् वृश्चिको जायते, गोलोमा ऽविलोमभ्यो दूर्वा जायते, बीजादङ्कुरो जायते, अत्र शृङ्गादिभ्यः शरादयो निष्क्रामन्तीति स्फुट एवापायः ; यदि निष्क्रामन्ति किं ? नाऽत्यन्ताय निष्क्रामन्ति सन्ततत्वादन्याऽन्यप्रादुर्भावाद् वा । हिमवतो गङ्गा प्रभवति, महाहिमवतो. रोहिता प्रभवति, अत्राप्यापः संक्रामन्तीत्यपायोऽस्ति; यद्यपक्रामन्ति किं ? नात्यन्तमपक्रामन्ति सन्ततत्वा-25 दन्यान्यप्रादुर्भावाद् वा । वलभ्याः शत्रुञ्जयः षड् योजनानि षट्सु वा योजनेषु भवति, अत्र वलभ्या निःसृत्य गतानि योजनानि, गतेषु वा तेषु,