________________
२३० ]
बृह वृत्तिलघुन्याससंवलिते
[पा० २. सू० २५.]
ग्रहणमिति । अपादानादीति-अन्यैरपादादानं प्रथममुक्तमिति तन्मतापेक्षयेत्युक्तम्, यद्वा । स्वमतापेक्षयाऽपि “कादिर्व्यञ्जनम्" [ १. १. १०.] इतिवत् । तरतमयोग इति-साहचर्यात् तरतमगतः प्रकर्षो लक्ष्यते । स्वकक्षायामिति-स्वकक्षा स्ववर्ग इति यावत्। ननु यदि स्ववर्गेऽपि प्रकर्षोऽपेक्ष्यते तदाऽन्येषां करणानां किं स्यात् ? उच्यते-तदा करणान्तराणां सम्बन्धे षष्ठी स्यात् ।। २. २. २४ ॥
कर्माऽभिप्रेयः संप्रदानम् ॥ २. २. २५ ॥
कर्मणा-व्याप्येन क्रियया वा करणभूतेन, यमभिप्रेयते-श्रद्धानुग्रहादिकाम्यया यमभिसंबध्नाति, स कर्माभिप्रेयः कारकं संप्रदानसंज्ञं भवति । देवाय बलिं ददाति, द्विजाय गामुत्सृजति, याचकायार्थं प्रयच्छति, शिष्याय धर्ममुपदिशति, राज्ञे कार्यमावेदयति; अस्यावान्तरव्यापाराः-अनिराकरणम्,10 प्रेरणम्, अनुमतिश्च ; तान् कुर्वंस्त्यागादौ कारकत्वं लभते । क्रियाऽभिप्रेयः खल्वपि-पत्ये शेते, श्राद्धाय निगल्हते, युद्धाय सन्नह्यते, देवेभ्यो नमति, प्रणम्य शितिकण्ठाय, निवेद्यतां महाराजाय सुग्रीवाय । अभिग्रहणादिह न भवतिघ्नतः पृष्ठं ददाति, रजकस्य वस्त्रं ददाति, राज्ञो दण्डं ददाति; इह च भवति-वाताय चक्षुर्ददाति, छात्राय चपेटां प्रयच्छति । सम्प्रदानप्रदेशाः-15 "दामः संप्रदानेऽधर्म्य पात्मने च" [२. २. ५२.] इत्यादयः ।। २५ ।।
न्या० स०--कर्मा० । ईङ च् “य एच्चातः" [५. १. २८.] ये गुणे "उपसर्गस्या०" [१. २. १६.] इत्यलोपे-अभिप्रेयः, कर्मणाऽभिप्रेयः “कारकं कृता" [३. १. ६८.] सः, वृत्तौ तु यमभिप्रेयत इत्यर्थकथनमेव, संप्रदीयते तस्मै बाहुलकादनट, श्रद्धा-ऽनुग्रहादिकाम्ययेति-तथेतिप्रत्ययः श्रद्धा, अनुग्रह उपकारः, अादिशब्दात् कीर्त्यपायाभावादिग्रहः ।20 श्राद्धाय निगल्हते स्वयं श्राद्धं कर्तुं यजमानेनाकारितं द्विजान्तरं निन्दतीत्यर्थः ।
"प्रणम्य शितिकण्ठाय, विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ १॥" अग्रेतनं रामायणगद्यम् । अभिग्रहणादिति-अभिरभिमतार्थः, प्र प्रारम्भार्थः, केवलस्य हि ईयतेर्गमनं वाच्यं, नाभिसम्बन्धः, ततोऽभिग्रहणं विशिष्टसम्बन्धप्रतिपत्त्यर्थं25 विशिष्टश्च सम्बन्धः कर्तु: श्रद्धा-ऽनुग्रहा-ऽपायापगमकामनाजनितः, स चात्र नास्तीति; प्रय इति सूत्र क्रियमाणे कर्मणा क्रियया यः सम्बध्यमानो भवति स सम्प्रदानसंज्ञ इत्युक्त घ्नतः पृष्ठं ददातीत्यत्रापि स्यात् । निवेद्यतामिति-"विदिण चेतनाख्याने"। रजकस्य वस्त्रं ददातीति-परिपूर्ण मूल्यमलभमानस्य रजकस्य पराङ मुखत्वम् । छात्राय चपेटां प्रयच्छतीति-चपेटया आहतः सन् छात्रोऽभिमुखो विनयपरो भवति ।
30