________________
[ पा० २. सू० २४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२६
"
संज्ञायामित्यादि - कालाऽध्वापेक्षयेदमुक्त भावापेक्षया तु द्वितीयार्थमपि । यद्यत्यन्तसंयोगे "काला -ऽध्व-भाव ० [ २. २.२३. ] इति प्रवर्तते तर्हि "काला -ऽध्वनोर्व्याप्तौ " [ २.२.४२. ] इति क्व प्रवर्त्स्यतीत्याह - कालेति । "काला -ऽध्वनोः ०" [ २. २. ४२. ] इति गुणद्रव्ययोगे, क्रियायोगे तु " काला - ऽध्व भाव० " [ २. २. २३ ] इति प्रवर्त्तत इत्यनयोस्तन्मते विभाग: ।। २. २. २३ ।।
5
साधकतमं करणम् ।। २. २. २४ ।
क्रियासिद्धौ यत् प्रकृष्टोपकारकत्वेनाव्यवधानेन विवक्षितं तत् साधकतमं कारकं करणसंज्ञं भवति । काष्ठैः स्थाल्यां पचति दात्रेण लुनाति, दानेन भोगानाप्नोति ; अस्य पाकादिक्रियासु ज्वलनादयोऽवान्तरव्यापारा:, विवक्षया च प्रकृष्टोपकारकत्वात् साधकतमत्वम् । तमग्रहरणमपादानादिसंज्ञाविधौ 10 तरतमयोगो नास्तीति ज्ञापनार्थम्, तेन - कुसूलात् पचति, गङ्गायां घोषः प्रतिवसतीति व्यवहितोपचरितयोरपि प्रपादानत्वमधिकरणत्वं च भवति । अस्य च कारकान्तराऽपेक्षया प्रकर्षो न स्वकक्षायाम्, तेनैकस्यां क्रियायामनेकमपि करणं भवति - नावा नदीस्रोतसा व्रजति, रथेन पथा दीपिकया याति, सूपेन सर्पिषा लवणेन पाणिनौनं भुङ्क्त े । करणप्रदेशाः - " करणं च " 15
[२. २. १६. ] इत्यादयः ।। २४ ।।
न्या० स० -- साधकतमं० । सिध्यतेरिंणगि “सिध्यतेरज्ञाने ” [ ४. २. ११. ] इत्यात्वे के तमपि च सिद्धम् । प्रकृष्टोपकारकत्वेनेति - प्रकर्षरणं प्रकृष्टं, तेनोपकारकम्, यद्वा प्रकृष्यते स्म प्रकृष्टः, ततः प्रकृष्टं च तदुपकारकं चेति कर्मधारयः । प्रकृष्टोपकारकत्वस्य को हेतुः ? अव्यवधानम्, यद्वा प्रकृष्टोपकारकत्वमपि किस्वरूपम् श्रव्यवधान - 20 मिति; अन्येषु मिलितेष्वपि लवनादिक्रिया दात्रादि विना न शक्यत इति कर्त्रा श्रव्यवहितं दात्रादि करणमपेक्ष्यत इति तस्य प्रकृष्टत्वम्, यत् प्रकृष्टोपकारकत्वेन स्थाल्यादिकमपि कर्त्राऽव्यवहितमपेक्ष्यते तदपि कररणमेव ननु प्रकृष्टोपकारकत्वं कर्तुरप्यस्ति तस्यापि करणत्वं प्राप्नोति नैवम् - तस्य स्वातन्त्र्यं लक्षणमस्ति । साधकतममिति - ननु सामग्रीतः क्रियासिद्धिस्तत्र कथं किञ्चित् साधकतमं किञ्चित् तद्विपरीतम् ? अन्वयव्यतिरेकाभ्यां 25 हि तत्र सर्वेषां सामान्यं साधारण्यमेवावगम्यते, तस्मात् क्रियासिद्धौ साधकतमस्य संभवो नास्तीति संभवं कल्पनया दर्शर्यात- विवक्षयेति - परमार्थवृत्त्या साधकतमत्वस्य सम्भवो 1 नास्ति, यद्वयापारानन्तर्येण तु क्रियासिद्धिविवक्ष्यते तस्य कल्पनया साधकतमस्येयं संज्ञा । अस्येति - ज्वलनरूप उत्पातनिपातरूपः पुण्यरूपश्च यथाक्रमं प्रयोगत्रयेऽप्यवान्तरव्यापारः । *गोरण-मुख्ययो० इति न्यायात् साधकतमस्यैव भविष्यति किं तमग्रहणेनेत्याह - तम - 30