________________
२२४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू०. १७-१८.]
त्यर्थः, शलाकां व्यवहरति-विगणयन् गोपायतीत्यर्थः । वचनभेदो यथासंख्यनिवृत्त्यर्थः ।। १६ ।।
न्या० स०--विनिमेय०। शतं पणायतीति- प्रकृति-ग्रहणे स्वार्थिकप्रत्ययान्तानां ग्रहणम् इति सूत्रे पणेत्युक्तेऽपि पणायतेरिह ग्रहः आत्मनेपदं तु प्रति अयं न्यायोऽनित्यः, इदं च कुतोलभ्यते ? “कमेणिङ” [३. ४. २.] इत्यत्र णिङिति ङकारो-3 पादानात् । गोपायतीत्यर्थ इति-अनेकार्थत्वाद् धातूनाम् ।। २. २. १६ ।।
उपसर्गाद् दिवः॥२. २. १७ ॥
उपसर्गात् परस्य दिवो व्याप्यो विनिमेय-द्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य प्रदीव्यति, शतं प्रदीव्यति; शतस्य प्रदीव्यते, शतं प्रदीव्यते; शतस्य प्रद्यूतम्, शतं प्रद्यूतम् ; शतस्य प्रदेवितव्यम्, शतं प्रदेवितव्यम् ; शतस्य10 सुप्रदेवम्, शतं सुप्रदेवम् । विनिमेय-द्यूतपणमित्येव-शलाका प्रतिदीव्यतिविगणयन्नपहरतीत्यर्थः । उपसर्गादिति किम् ? शतस्य दीव्यति ।। १७ ।।
न ॥२. २. १८ ॥
विनिमेय-धू तपणौ दिवो व्याप्यौ कर्मसंज्ञौ न भवतः, उपसर्गपूर्वस्य विकल्पविधानादनुपसर्गस्यायं निषेधः । शतस्य दीव्यति, सहस्रस्य दीव्यति,15 निषिद्धे च कर्मणि षष्ठय व भवति; 'शतस्य दीव्यते, शतस्य द्यूतम्, शतस्य देवितव्यम्, शतस्य सुदेवम्', इत्यादौ भावे-आत्मनेपद-क्त-कृत्य-खलः सिद्धाः; 'शतस्य द्यूतो मैत्रः' इत्यत्र च कर्तरि क्तः । विनिमेय-द्यूतपणमित्येव-जिनं दीव्यति-स्तौतीत्यर्थः, भूमि दीव्यति-संधिना विजिगीषत इत्यर्थः, सन्धिपणोऽत्र न द्यूतपणः; द्यूतं दीव्यति, अक्षान् दीव्यति, अत्र क्रिया तत्साधनं च व्याप्यं 20 न तु पणः ॥ १८ ॥
न्या० स०-न। सन्धिना विजिगीषत इति-समर्थेन सन्धि कृत्वाऽन्येषां भूमि विजिगीषत इत्यर्थः, तथा च नीति:
"समर्थन समं राज्ञा, सन्धि कृत्वा विचक्षणः । स्वल्पोऽपि धनसंयुक्तान्, राजन्यानवमानयेत् ॥१॥"
25