________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२३
"
“घटादेर्ह स्वः [ ४. २. २४ ] पक्षे निषिध्यते, तथा दस्युमुदजीजसदित्यादौ " उपान्त्य - स्य०" [ ४. २. ३५. ] इत्यस्यापि किं न निषेधः ? सत्यम् - * यस्मिन् प्राप्त एव० इति न्यायात् " घटादेः ०" [ ४ २ २४ ] इत्यस्यैव निधः । ननु हिंसाया रुजारूपत्वात् " रुजार्थस्य ०" [ २. २. १३. ] इत्यनेनैव कर्मविकल्पो भविष्यति, किमनेनेति ? अथ जास-नाट-क्राथेत्याकारश्रवणार्थमिदं सूत्रं विधीयते, तदा पिष्ग्रहणमनर्थकं स्यात्, तस्मात् 5 पूर्वेणैव सिद्धमित्याह - प्रभावकर्तृ कार्थमिति ।। २. २. १४ ।।
[ पा० २. सू० १५-१६.]
नि-प्रेभ्यो नः ।। २. २. १५ ।।
नि-प्राभ्यां परस्य हिंसायां वर्तमानस्य हन्तेर्व्याप्यं वा कर्म भवति, बहुवचनं समस्त-व्यस्त - विपर्यस्तसंग्रहार्थम् । चौरस्य निप्रहन्ति, चौरं निप्रहन्ति चौरस्य चौरं वा निहन्ति; चौरस्य चौरं वा प्रहन्ति चौरस्य 10 चौरं वा प्रणिहन्ति ; चौराणां निप्रहण्यते, चौरा निप्रहण्यन्ते राज्ञा । नि-प्रेभ्य इति किम् ? चौरं हन्ति, चौरमाहन्ति । हिंसायामित्येव - रागादीन्
निहन्ति ।। १५ ।।
न्या० स० -- निप्रेभ्यो० । निना सहितः प्रो निप्रः प्रेरण सहितो निः प्रनिः, निप्रश्च निश्च प्रश्व प्रनिश्व यदा तु प्र- निभ्यां पूर्वमुपसर्गान्तरं प्रयुज्यते तदा न भवति, 15 बहुवचनेन ज्ञापितत्वात्, अन्यथा “वाभ्यवाभ्याम् " [ ४. १: ६६.] इतिवद् द्विवचनेनापि समस्तादिग्रहणमात्रं भवेत् । संग्रहार्थमिति यद्येतदर्थं तहि न प्रदेयं यत्रापि व्यस्तविपर्यस्तो नि-प्रौ भविष्यतः, तत्रापि नेः प्राग् वा परो हन्नस्तीति, उच्यते तर्हि - अन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसंज्ञानिवृत्त्यर्थम् तेन चौरं विप्रहन्ति विनिहन्ति वेत्यादौ पूर्वेण नित्यं कर्मसंज्ञा । प्रहन्तीति - अत्र " नां०" [१. ३. ३६. ] इति बहुवचनात् "हनः” [२. ३. ८२]20 इत्यनेन रणत्वाभावः । रागादीन् निहन्तीत्यत्र रागादीनामचेतनतया प्रारणव्यपरोपणलक्षणाया हिंसाया प्रभावान्न भवतीत्यर्थः ।। २. २. १५ ।।
विनिमेय द्यूतपणं पण-व्यवहः ॥ २. २. १६॥
विनिमेयः–क्रेय-विक्रेयोऽर्थः, द्यूतपणो - द्यूतजेयम्; पणतेर्व्यवपूर्वस्य च हरतेoर्व्याप्य विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य परणायति, शतं 25 ' पणायति ; सहस्रस्य सहस्रं वा पणायति, क्रय-विक्रये द्यूतपरणत्वे वा तद् विनियुङ्क्त इत्यर्थः ; एवं दशानां व्यवहरति, दश व्यवहरति पञ्चानां पञ्च वा व्यवहरति । विनिमेय द्यूतपरणमिति किम् ? साधून् पणायति - स्तौती
1