________________
२२२२ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० २. सू० १४.]
न्या० स०--रुजार्थस्य०। “रुजोंत् भङ्ग" इत्यस्माद् भिदाद्यङि-रुजा। भाव- । श्चेदिति-साध्यरूपस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्द: सिद्धरूपे भावे वर्तत इति तात्पर्यार्थः ।
"एति जीवन्तमानन्दो नरं वर्षशतादपि ।
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ॥" [विष्णुपुराणे ।] 5
चैत्रं रुजत्यत्यशने वात इति-अत्र योऽत्यशनरूपो भावो न स कर्ता, यस्तु वातरूपः कर्ता स द्रव्यं, न भावः । अत्र सूत्रे व्यथितप्योर्गत्यादिसूत्रेणाणिक्कतु : कर्मत्वम् ।। २. २. १३ ॥
जास-नाट-क्राथ-पिषो हिंसायाम् ॥ २. २. १४ ॥
एषां हिंसायां वर्तमानानां व्याप्यं वा कर्म भवति । "ब्रूस पिस जस10 बर्हण हिंसायाम्" "जसण ताडने” इति चुरादी गृह्यते, न “जसूच मोक्षणे" इति देवादिकः, तस्याहिंसार्थत्वात्, चौरस्योज्जासयति, चौरमुज्जासयति; चौरस्योज्जास्यते, चौर उज्जास्यते चैत्रेण; तथा "नटण अवस्यन्दने” इति, अयमपि चुरादिर्न तु "रण्ट नृत्तौ” इति भ्वादिः, चौरस्योन्नाटयति, चौरमुन्नाटयति ; एवं-क्राथिर्घटादिः-चौरस्योत्क्राथयति, चौरमुत्कथयति; चौरस्य15 पिनष्टि, चौरं पिनष्टि । जास-नाट-काथानामाकारोपान्त्यनिर्देशो यत्राकारश्रुतिस्तत्र यथा स्यादित्येवमर्थः, तेनेह न भवति-दस्युमुदजीजसत्, चौरमनीनटत् ; दस्युमुदचिक्रथत् ; अत एव च काथेः कर्मसंज्ञाप्रतिषेधपक्षे ह्रस्वत्वाभावः, कर्मणि तु ह्रस्वत्वमेव । हिंसायामिति किम् ? चौरं बन्धनाज्जासयति-मोचयतीत्यर्थः, नटं नाटयति-नर्तयतीत्यर्थः । अभाव-20 कर्तृ कार्थं वचनम् ।। १४ ।।
न्या० स०--जास-नाट०। "नटण अवस्यन्दने" इति-अवस्यन्दनं हिंसाभेदः । न तु "रण्ट नत्तौ" इति-अत्राप्यहिंसार्थत्वादित्येव हेतुः। आकारोपान्त्यनिर्देश इति-ननु जासनाट-काथेत्याकारः किमर्थः ? यतो जस-नट-क्रथेति धातवः पठ्यन्ते, तेषां निर्देशे तथैव निर्देष्टव्यम् ; अथ ण्यन्तनिर्देशस्तहि जासि-नाटि-क्राथीति भवितव्यमित्याह-25 यत्राकारश्रतिस्तत्रेति । एवं-काथिर्घटादिरिति-एवम्-अमुना प्रकारेणापरमपि निर्णीयते, किं तत? क्राथिर्घटादिर्ग ह्यते, न त "ऋथ अदिण हिंसायाम्" इति यौजादिकः, इति वैयाकरणानां मतम् ; धातुपारायणकारैस्तु उपलक्षणत्वाद् यौजादिकोऽपि । ननु यथा