________________
[पा० २. सू० १२-१३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २२१
कल्पितचिन्तनार्थानां समीक्षादीनां व्युदासः । लोकानामीष्टे इति-व्यापारेषु नियुक्त स्वायत्तीकरोतीत्यर्थः ।। २. २. ११ ।।
कृगः प्रतियत्ने ॥ २. २. १२ ॥
पुनर्यत्न:-प्रतियत्नः, सतो गुणाऽऽधानायाऽपायपरिहाराय वा समीहा; तस्मिन् वर्तमानस्य करोतेाप्यं वा कर्म भवति । एधोदकस्योपस्कुरुते, 5 एधोदकमुपस्कुरुते, शस्त्रपत्रस्योपस्कुरुते, शस्त्रपत्रमुपस्कुरुते । प्रतियत्न इति किम् कटं करोति । किम् ? व्याप्यमित्येव-एधोदकस्योपस्कुरुते बुद्धया, करणस्य मा भूत् ।। १२ ।।
न्या० स०--कृगः प्र०। प्रतिशब्द: पुनरर्थेऽव्ययम्, “अव्ययं प्रवृद्धादिभिः" [ ३. १. ४८. ] [ इति ] सः । सतो गुणाधानायेति-ननु यत्नद्वये सति पुनर्यत्न इत्युप-10 युज्यते, तत् कथमत्र प्रतियत्नः ? उच्यते-प्रथमं तावदर्थस्यात्मलाभाय यत्नो भवति, लब्धात्मनो यो यत्नोऽधिकान् गुणानुत्पादयितु परिपूर्णगुणस्य वा तादवस्थ्यं रक्षितुस: प्रतियत्नः । कटं करोतीति-अभूतः सन् निर्वर्त्यः कटोऽत्र, यत्र तु वणिकया रक्त कटं करोति, तत्रापि विकार्यमेव कर्म न प्रतियत्नः, उपपूर्वस्यैव करोते: प्रतियत्नविषयत्वात्, "गन्धना०" [ ३. ३. ७६. ] इत्यात्मनेपदं चोपपूर्वस्यैव, अत एव मूलोदाहणेष्वपि-15 उपपूर्व एव दशितः । एधोदकस्येति-एधाश्चोदकानि च "अप्राणिपश्वादे:" [३. १. १३६.] इत्येकत्वम् ।। २. २. १२ ।।
रुजार्थस्याज्वरि-संतापेर्भाव कर्तरि ॥ २. २. १३ ॥
रुजा-पीडा, तदर्थस्य धातोर्वरि-संतापिवजितस्य व्याप्यं वा कर्मसंज्ञ भवति, भावे कर्तरि-भावश्चेद्र जार्थस्य कर्ता भवति । चौरस्य रुजति, चौरं20 रुजति रोगः; अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण; चौरस्य रुग्णम्, चौरो रुग्ण इत्यादि । चौरस्यामयति, चौरमामयति रोगः; चौरस्य व्यथयति, चौरं व्यथयति रोगः; चौरस्य पीडयति, चौरं पीडयति रोगः । रुजार्थस्येति किम् ? "एति जीवन्तमानन्दः” [ विष्ण पुराणे ] । ज्वरि-संतापिवर्जनं किम् ? अानं ज्वरयति, अत्याशिनं संतापयति । कर्तरीति 25 किम् ? चैत्रं रुजत्यत्यशने वातः । भाव इति किम् ? मैत्रं रुजति श्लेष्मा, अत्र श्लेष्मा द्रव्यं, न भावः; रोगो व्याधिरामयः शिरोऽतिरित्यादयो भावरूपाः कत्र इति ।। १३ ।।