________________
[ पा० २. सू० १६. ]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २२५
अत्रक्रियेत्यादि - क्रिया द्यूतरूपा, तत्साधनं चाक्षा इत्यर्थः । शतस्य सुवेवमिति - अत्र 'सु' इति निपातान्तरं नोपसर्ग:, अत एव सुस्थितं दुःस्थितमित्यादौ "स्था सेनि० " [२. ३. ४०. ] इत्यनेन षत्वं न भवति ।। २. २. १८ ।।
करणं च ॥ २. २. १६ ।।
दीव्यतेः करणं कर्मसंज्ञं चकारात् करणसंज्ञं च भवति, कर्म-करणसंज्ञे 5 युगपद् भजतीत्यर्थः । अक्षान् दीव्यति, अक्षारणां देवनम् अक्षा दीव्यन्ते, अक्षा देवितव्याः, अक्षाः सुदेवा:, अक्षदेवः, प्रक्षा द्यूताश्व त्रेण; एषु कर्मत्वे द्वितीयाषष्ठ्यात्मनेपद-तव्य-खलरण - क्तप्रत्ययास्तन्निमित्ताः सिद्धाः । अक्षैर्दीव्यति, अक्षैर्देवनम्, अक्षैर्दीव्यते, अक्षैर्देवितव्यम्, अक्षैः सुदेवं मैत्रेण, अक्षैद्यूतं चैत्रेण, अक्षा देवना:; एषु करणत्वे तृतीयाऽनटौ, भावे - प्रात्मनेपदादयश्च सिद्धा: 110 ग्रात्मनेपदादिभिश्वोक्तयोः कर्म-करणयोः द्वितीया - षष्ठी - तृतीया यथायोगं न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञाद्वयसमावेशार्थ:, तेनाक्षैर्देवयते मैत्रव त्रेणेत्यत्र करणत्वात् तृतीया भवति, कर्मत्वाच्च गत्यादिसूत्रेण नित्याकर्मकलक्षणमणिक्कर्तुः कर्मत्वम्, देवयतेश्व "प्रणिगि प्रारिण० " [ ३.३.१०७.] इत्यादिनाऽकर्मकलक्षरणं परस्मैपदं न भवति । प्रथाक्षान् दीव्यतीत्यत्र सत्यपि 15 संज्ञाद्वयसमावेशे परत्वात् करणत्वनिमित्तया तृतीययैव भवितव्यम्, नैवम्स्पर्धे हि परः, समानविषययोश्च स्पर्धः, न च द्वितीया तृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवत्येव, * प्रतिकार्यं संज्ञा भिद्यन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा । दिव इत्येव - दात्रेण लुनाति । करणमिति किम् ? 20 गृहे दीव्यति ॥ १९ ॥
न्या० स०-- कर० । चकारस्यान्यत् समुच्चेतव्यं नास्तीति करणमेव प्रतीयते, करणस्य कर्मसंज्ञायामप्राप्तायां विधीयमानायां निर्वत्र्त्यादयो धर्मा न चिन्त्या असम्भवात् । युगपद् भजतीति- फलं भवतु मावा, संज्ञाद्वयं तु सर्वप्रयोगेषु वेदितव्यम्; न च संज्ञाद्वयं युगपन्निरवकाशमिति वाच्यम्, अक्षैर्देवयत इत्यत्र चरितार्थत्वात्, अत्राक्षान् देवयत इत्यपि 25 प्रयोगो भवति । करणं वेत्येवेति न च विकल्पेऽपि युगपत् संज्ञाद्वयं भविष्यतीति वाच्यं विकल्पस्य पाक्षिकप्रवृत्ति-निवृत्तिफलत्वात् । प्रतिकार्यमिति - एकस्यापि कर्मणः करणस्य वा कार्यं कार्यं प्रति संज्ञाऽभिधायकानि सूत्राणि भिद्यन्त इत्यर्थः । इति वा दर्शन इति -