________________
[पा० २. सू० ४-५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २१५
वाअकर्मणामणिक्कर्ता णौ ॥ २. २. ४ ॥
अविवक्षितकर्माणोऽकर्माण उत्तरत्र नित्यग्रहणात्, तेषामणिगवस्थायां यः कर्ता स णौ-णिगि सति कर्मसंज्ञो वा भवति । पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा; लिखति मैत्रः, लेखयति मैत्रं मैत्रेण वा। गत्यर्थादीनां तु परत्वान्नित्य एव विधिः-गच्छति चैत्रः, गमयति चैत्रमित्यादि । किं करोतीति5 व्यापारमात्रविवक्षायां चाविवक्षितकर्माणो भवन्ति ।। ४ ।।
न्या० स०--वाऽकर्म। अविवक्षितेति-नन्वेवं तहिं गत्यर्थादीनामप्यविवक्षितकर्मकत्वेन विकल्पः प्राप्नोतोत्याह-गत्यर्थादीनामिति ।। २. २. ४ ।।
गति बोधाहारार्थ-शब्दकर्म-नित्याकर्मणाम-नी
खाद्यदि-वा-शब्दाय क्रन्दाम् ॥ २. २. ५ ॥10
गतिः-देशान्तरप्राप्तिः, बोधः-ज्ञानमात्रं तद्विशेषश्च, शब्दः कर्म-क्रिया व्याप्यं च येषां ते शब्दकर्माणः, नित्याऽकर्माण:-सर्वथाऽविद्यमानव्याप्याः; गत्यर्थ-बोधार्था-ऽऽहारार्थानां शब्दकर्मणां नित्याऽकर्मणां च धातूनां नीखाद्यदिह्वयति-शब्दायति-क्रन्दजितानामणिगवस्थायां यः कर्ता स णौ सति कर्मसंज्ञो भवति । गत्यर्थ:-गच्छति मैत्रो ग्रामम्, गमयति मैत्रं ग्रामम् ; याति15 मैत्रो ग्रामम्, यापयति मैत्रं ग्रामम् ; देशान्तरप्राप्तेरन्यत्र न भवति-स्त्रियं गमयति मैत्रेण चैत्रः, भजनार्थोऽत्र गमिः । सामान्यबोधार्थः-बुध्यते शिष्यो धर्मम्, बोधयति गुरुः शिष्यं धर्मम् ; जानाति शिष्यो धर्मम्, ज्ञापयति गुरुः शिष्यं धर्मम् ; एवमुपलम्भयति, अवगमयतीत्यादि । विशेषबोधार्थ:-पश्यति रूपतर्कः कार्षापणम्, दर्शयति रूपतर्कं कार्षापणं वणिक; एवं घ्रापयति मैत्र-20 मुत्पलम्, स्पर्शयति मैत्रं वस्त्रम्, श्रावयति शिष्यं धर्मम्, स्मारयति शिष्यं धर्मम्, अध्यापयति शिष्यं शास्त्रम् । अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति नान्येषाम्, तन्मते-'जिघ्रत्युत्पलं चैत्रः, घ्रापयत्युत्पलं चैत्रेण मैत्रः, एवं स्पर्शयति चैत्रेण वस्त्रम्, श्रावयति धर्म शिष्येण' इत्यादौ प्रयोज्यकर्तरि तृतीयैव भवति ।
25