________________
[ पा० २. सू० ३. ]
1
पौरवः, अयं च याच्यमानो हृष्टो म्लानो वा भवतीति विकार्यं कर्म, भिक्षते कोऽर्थः ? याचनापूर्वकं गां दापयति वियोजयतीति वेत्यर्थः । गामवरुद्धीति - व्रजं सेवमानं सेवयतीत्यर्थः । पृच्छति कथापयति । चोदयतीति वादयतीत्यर्थः । वृक्षमवचिनोतीतिवृक्ष: फलानि वियुक्तं तं वियोजयतीत्यर्थः । ब्रते कथयन्तं कथापयति । अनुशास्ति ज्ञापयति । याचते कारयते । अनुनयार्थ इति - तेन भिक्ष्यर्थमध्ये याचिद्वाराऽनुनयार्थानां 5 नग्रहः, भिक्षिर्याच्त्रायामेव, याचिस्तूभयार्थ इति । जयति मोचयति । कर्षति कर्षयति । करोति योजयति । मथ्नाति - वियोजयति । नयति प्रापयति । हरति वियोजयति प्रापयति वा । मुष्णाति त्याजयति, उपसरः- - पुरुषविशेषो देशो वा तत्र जातः, कोऽर्थः ? परस्वामिकं सन्तमात्मस्वामिकं करोति । वहति प्रापयति । गृह्णाति त्याजयति । तण्डुलानोदनं पचति तण्डुलान् विक्लेदयन् विकुर्वन् प्रोदनं करोतीत्यर्थो धातूनामनेकार्थ- 10 त्वादिति । दुहादीनामिति -
२१४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
"दुहागरणकं कर्म, नीवहादेः प्रधानकम् । रिगन्ते कर्तृकर्मैवमन्यद् वा वक्ति कर्मजः " ।।
4
“येनापविद्धसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिमन्थे । व्यावर्तनैरहिपतेरयमाहिताङ्कः, खं व्यालिखन्निव विभाति स मन्दराद्रिः ।। "
15
नेतव्या वा ग्राममजेति - प्रजादेः प्राधान्यान्नकेतुश्च पूर्वं तत्रैव क्रियाप्रवर्तनादन्तरङ्गत्वाच्च तत्रैव प्रधाने कर्मज इति । केचिदाहुः न प्रमी नयत्यादयो द्विकर्मका अन्यकर्मत्वात्, तथाहि प्रजां नयति ग्रामम् अजां गृहीत्वा ग्रामं यातीति ह्यत्रार्थः, नयतिस्तु प्रातिमात्र वाची, गम्यमानक्रियापेक्षयापि कर्मत्वं दृश्यते, यथा- ' प्रविश, पिण्डी, द्वारत्' इति, भक्षणक्रियापेक्षया पिधानक्रियापेक्षया चेति, नैवम् - एवं सति 'अजा नीयते ग्राम न्' 20 इत्यत्र कर्मण्युत्पद्यमानेनात्मनेपदेनाजा कर्मणोऽभिधानं न प्राप्नोति, यतो गृह्णातेरजा कर्म, न नयतेरिति, तस्मादन्यकर्मत्वमजाया नैष्टव्यमिति । श्रकर्मणामिति - नित्याकर्मकारणामविवक्षितकर्मकाणां चेत्यर्थः । प्रधान एव कर्मणीति - कर्तृकर्मणि कर्मजः प्रत्ययो भवतीति सम्बन्धः, प्राधान्यं च तस्य " गतिबोधाहारार्थ ० " [२. २. ५. ] इति कर्मसंज्ञाया विधीयमानत्वेन कृत्रिमत्वात् कर्तु : प्रथमप्रवृत्तिविषयत्वाद् वा । प्रधान एवेति - अन्यस्त्वप्रधानेऽ-25 पीच्छति तन्मतक्षेपणायात्रैवकारः । श्रासयति मासं मैत्रमिति - श्रास्ते मासं मैत्र:, तमासीनं परः प्रयुङ्क्त े, मासस्य "काला - ऽध्व भाव० " [२. २. २३. ] इति कर्मसंज्ञा, कालाSea - देश - भावैश्व सर्वेऽपि धातवः सकर्मका इत्यन्यकर्मापेक्षया अकर्मका इह ग्राह्याः । बोधयति शिष्यं धर्ममित्यत्र वाक्यस्य धर्मप्रतिपादनपरत्वे धर्मस्य प्राधान्यं शिष्यादेर्गुणभाव:, शिष्यादिसंस्कारपरयां तु प्रवृत्तौ शिष्यादेः प्राधान्यं धर्मस्य गुणभाव इत्युभयत्र 30 कर्मजः प्रत्यय इति । पाठयति शिष्यं ग्रन्थमिति - अर्थस्य शब्देन प्रतिपाद्यत्वाच्छब्दस्य प्राधान्यं शब्दस्यार्थपरत्वादर्थस्यैव प्राधान्यमिति समर्थयन्ते गरीयांसो विद्वांसः । पयसा ओदनमिति - अत्र पय इति न व्याप्यमोदनापेक्षयाऽन्याङ्गत्वात् यच्चाऽनन्याङ्गः तदेव व्याप्यमिति ।। २. २.३ ।।