________________
[पा० २. सू० ३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २१३
गत्यर्थानामकर्मणां च रिणगन्तानां प्रधान एव कर्मणि-गमयति मैत्रं ग्रामम्, गम्यते गमितो गम्यो वा मैत्रो ग्रामं चैत्रेण, प्रासयति मासं मैत्रम्, प्रास्यते मासं मैत्रश्च त्रेण । अन्यस्त्वप्रधानेऽपीच्छति-गम्यते मैत्रं ग्रामश्च त्रेण, प्रास्यते मासो मैत्रं चैत्रेण । बोधा-ऽऽहारार्थ-शब्दकर्मकाणां तु णिगन्तानामुभयत्र-बोधयति शिष्यं धर्मम्, बोध्यते शिष्यो धर्मम्, बोध्यते शिष्यं धर्म इति , वा, भोजयत्यतिथिमोदनम्, भोज्यतेऽतिथिरोदनम्, भोज्यतेऽतिथिमोदन इति वा, पाठयति शिष्यं ग्रन्थम्, पाठ्यते शिष्यो ग्रन्थम्, पाठ्यते शिष्यं ग्रन्थ इति वा; सर्वत्र चोक्त कर्मणि द्वितीया न भवतीति वक्ष्यते । कर्तुरिति किम् ? माषेष्वश्व बध्नाति, अश्वन कर्मणा भक्षणक्रियया स्पर्शनक्रियया वा माषाणां व्याप्यानां कर्मणां कर्मसंज्ञा मा भूत् । वीति किम् ? पयसा प्रोदनं भुङ्क्त,10 अत्र करणस्य मा भूत् । कर्म-व्याप्यप्रदेशा:-“कर्मणोऽण" [ ५. १. ७२. ] "व्याप्याच्चेवात्" [५. ४. ७१.] इत्यादयः ।। ३ ।।
न्या० स०--का० । कर्तु रित्यत्र प्रथमव्याख्याने व्याप्येत्यस्य कृत्प्रत्ययान्तस्य योगे "कृत्यस्य वा" [ २. २. ८८. ] इति कर्तरि षष्ठी। ननु यदा द्वतीयीकं व्याख्यानंकतु : कर्म व्याप्यमिति क्रियते तदा कर्मणा योगे कर्तृ शब्दात् केन सूत्रेण षष्ठी वर्तिष्ठ ?,15 उच्यते-कृच्छेषा उणादय इति कृत्वा कर्मशब्द औरणादिकप्रत्ययान्तोऽपि कृदन्तः, ततस्तद्योगे “कर्तरि" [ २. २. ८६. ] इति षष्ठी। विकार्यमिति-विकार्यते स्वभावोच्छेदेनान्यथात्वं लभ्यत इति । निवर्तत इति
“निर्वृत्त्यादिषु यत् पूर्वमनुभूय स्वतन्त्रताम् ।
कञन्तराणां व्यापारे, कर्म संपद्यते ततः" ।। विकुरुत इति-अन्यथा विकृतिमनुपगच्छतो वज्रस्येव विकार्यत्वायोग: स्यात् । प्राभासमुपगच्छतीति-तथाऽऽभासाऽयोग्यस्य परमनिकृष्टपरमाण्वादेरिवाभास्यत्व विरहः स्यादिति व्याप्यस्याभासगमनमवान्तरव्यापार इति । विषं भक्षयतीति-यदाज्ञातं सः भक्ष्यते तदैवानिष्टम्, यदा तु राजभीतेन व्याध्यतिक्रान्तेन वा भक्ष्यते तदा इष्टमेव । गां दोग्धि पय इति-अन्तर्भूतण्यर्थत्वेनामीषां द्विकर्मकत्वम्, अन्तर्भूतण्यर्थाः सकर्मका:25 सर्वे, तेनामयर्थः-गौः की पयः कर्म मुञ्चति, तां गां मोचयतीति। गां स्रावयति पय इति-"गतिबोधा०" [२. २. ५.] इत्यत्र बहुवचनादन्येषामपि अणिक्कतु: कर्मत्वम्, तेन गवादीनोमपि कर्मत्वं युक्त, नात्र नियमः प्रवर्तते, एतेऽपि ईशा अपि द्विकर्मका उच्यन्ते इति । यद्वा “बहुलमेतन्निदर्शनम्" [ धातुपारायणम् ] इति णिजन्तता सर्वत्र । पौरवं गां भिक्षते-अस्ति राजा पुरुर्नाम, तदपत्यं-"पुरु-मगध०" [६. १. ११६.] इत्यणि30