________________
२१६ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० २. सू० ५.]
आहारार्थः-भुङ्क्त े बटुरोदनम्, भोजयति बटुमोदनम्; अश्नाति बटुर्भक्तम्, प्राशयति बटुं भक्तम् । शब्दक्रियः - जल्पति मैत्रो द्रव्यम्, जल्पयति मैत्रं द्रव्यम्; एवमालापयति मित्र मैत्रम्, संभाषयति मैत्रं भार्याम्, शब्दव्याप्यः - शृणोति शब्दं मैत्रः श्रावयति शब्द मैत्रम्, प्रधीते बटुर्वेदम्; प्रध्यापयति बटुं वेदम् एवं जल्पयति मित्रं वाक्यम्, विज्ञापयति गुरुं 5 वाक्यम्, उपलम्भयति शिष्यं विद्याम् । नित्याकर्मकः - प्रास्ते मैत्रः, प्रासयति मैत्रं चैत्रः; शेते मैत्रः, शाययति मैत्रं चैत्रः । नित्यग्रहणं पूर्वत्राविवक्षितकर्मकपरिग्रहार्थम्, अन्यथा विभागो न ज्ञायेत । काला - ऽध्व-भाव - देशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यर्थादीना - मिति किम् ? पचत्योदनं चैत्रः, पाचयत्योदनं चैत्रेण मैत्रः ।
10
अणिक्कर्तेत्येव - गमयति चैत्रो मैत्रम्, तमपरः प्रयुङ्क्त - गमयति चैत्रेण मैत्रं जिनदत्तः । नयत्यादिवर्जनं किम् ? नयतेः प्रापणोपसर्जन प्राप्त्यर्थत्वेन गत्यर्थत्वात् खाद्यद्योराहारार्थत्वात् ह्वाशब्दाय क्रन्दां च शब्दकर्मकत्वात् कर्मत्वे प्राप्ते प्रतिषेधार्थम् - नयति भारं चैत्रः, नाययति भारं चैत्रेण; खादयत्यपूपं मैत्रेण, प्रादयत्योदनं मैत्रेण, हवाययति चैत्रं मैत्रेरण, शब्दाययति चैत्रं मैत्रेण, 15 क्रन्दयति मित्र मैत्रेण; कर्मसंज्ञाप्रतिषेधात् स्वव्यापाराऽऽश्रयं कर्तृत्वमेव । प्रेषणा - Sध्येषणादिना प्रयोजकव्यापारेण रिगगन्तवाच्येनाणिक्कर्तुर्व्याप्यत्वात् कर्मसंज्ञा सिद्धैव, नियमार्थं तु वचनम् - प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्थादिसम्बन्धिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवति तेनाऽन्यधातुसम्बन्धिनः कर्तृ त्वमेव भवति ।। ५ ।।
20
न्या० स० -- गतिबोधा० । न विद्यते कर्म येषां तेऽकर्माणः, नित्यमकर्मारण इति विस्पष्टपटुवत् समासः, ततो द्वन्द्वात् षष्ठीबहुवचनम् । प्राहारस्य सुप्रसिद्धत्वाद् गतिबोधयोः स्वरूपमाह - गतिः - देशान्तरप्राप्तिरिति । बुध्यते शिष्यो धर्मम् अत्र हि बुध्यादयश्चक्षुरादीन्द्रियसाधनज्ञानविशेषस्याप्रतिपादनात् सामान्यबोध एव वर्तन्त इत्यर्थः । दर्शयति रूपतर्कमिति - रूपं तर्कयतीति "कर्मणोऽण्” [ ५. ३. १४. ] इत्यरिण रूपतर्क:, 25 कर्षेणाप्यत इति "भुज - पत्यादिभ्यः ०" [ ५. ३. १२८. ] इति कर्मण्यनटि " पूर्वपदस्थ ० ' [ २. ३. ६४. ] इति णत्वे प्रज्ञादित्वात् स्वार्थेऽरिग कार्षापरणः, अत्र दृश्यादीनां चक्षुरादिसाधनजनितज्ञान विशेषवृत्तीनां विशेषबोधार्थतेत्यर्थः । अन्ये त्विति - ते हि गत्यादिसूत्रे
"