________________
[पा० १. सू० १०८-१११.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०५
त्वनेन लुकि - क्त्वः, टः, इत्याद्येव । हाहे देहीति - "ओहांङ क् गतौ” हाशब्दं जिहीतेगीतकाले कर्तव्यतया प्राप्नोतीति विच् ।। २. १. १०७ ।।
अनोsस्य ॥ २. १. १०८ ॥
अनोऽकारस्य ङी- स्याद्यघुट्स्वरे परे लुग् भवति । राज्ञी, राज्ञः, राज्ञा, राज्ञे; तक्ष्णः, तक्ष्रणा, तक्ष्णे । ङी - स्याद्यघुट्स्वर इत्येव -- राजानौ, राजानः, 5 सुराजानि कुलानि ; राजभ्याम् ।। १०८ ।
ई-डौ वा ॥ २.१. १०६ ॥
अनोऽकारस्येकारे ङौ च परे लुग् वा भवति । साम्नी, सामनी; दाम्नी, दामनी; सुराज्ञी, सुराजनी कुले; राज्ञि, राजनि; दध्नि, दधनि ।। १०६ ।।
न्या० स०-- ई ङौ वेति । ङिविभक्तिस्तत्साहचर्यादीकारोऽपि विभक्तिरूप एव 10 ग्राह्य:, तेनौकारस्थानिनीकारेऽनेन विकल्पः ; ङीप्रत्यये तु राज्ञीत्यादिषु पूर्वेण नित्यमेव, निरनुबन्धग्रहण० न्यायाद् वा ।। २. १. १०६ ।।
षादि- हन्- धृतराज्ञोsणि ॥ २. १. ११० ॥
षकारादेरनो हन् धृतराजन्नित्येतयोश्चाकारस्याणि प्रत्यये परे लुग् भवति । प्रौक्ष्णः, ताक्ष्णः, भ्रौणघ्नः, वार्त्रघ्नः, धार्तराज्ञः । षादीनामिति 15 किम् ? सामनः, वैमनः । अणीति किम् ? ताक्षण्यः ।। ११० ॥
न्या० स० -- षादिहन् ० । ताक्ष्ण इति - " सेनान्त० " [ ६. १. १०२. ] इत्यनेन कारुद्वारा प्राप्तस्य त्र्यस्य बाधक : "शिवादेरण" [ ६.१.६०. ] इत्यण् सामन इतिद्वयोरपि देवतार्थे, वेत्त्यधीते वेत्यर्थे, इदमर्थे वाऽण, "अणि" [ ७.४.५२. ] इत्यनो लोपाभावः । ताक्षण्य इति अत्र " कुर्वादेः” [ ६. १. १००. ] ।। २. १. ११० ।।
20
न वमन्तसंयोगात् ॥ २.
१११ ॥
वकारान्तान्मकारान्ताच्च संयोगात् परस्यानोऽकारस्य लुग् न भवति । पर्वणा, पर्वणे; तत्त्वदृश्वना, तत्त्वदृश्वने; कर्मणा, कर्मणे; भस्मना, भस्मने; अश्मना, अश्मने; पर्वणी, कर्मणी, पर्वरिण, कर्मणि । संयोगादिति किम् ? प्रतिदीना, साम्ना । वमन्तेति किम् ? तक्ष्णा, मूर्ध्ना ।। १११ ॥
25