________________
२०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० १०७.]
मघवानि कुलानि । स्वर इति किम् ? श्वभ्याम्। नकारान्तनिर्देशादिह न ' भवति--गोष्ठश्वेन, युवतीः पश्य, युवत्या, मघवतः पश्य, मघवता । अर्थवद्ग्रहणादिह न भवति--तत्त्वदृश्वना, मातरिश्वना ।। १०६ ॥
न्या० स०-श्वन्-युवन् । ङीग्रहणात् स्यादावघुट्स्वरे लब्धे स्यादिग्रहणमधुट्स्वरस्याप्रत्ययत्वशङ्कानिरासार्थन्, शङ्का हि कथम् ?, डीप्रत्ययोऽपुट्स्वरोऽपि प्रत्यय 5 एवेति नाशङ्कनीय न्, डीग्रहणात्, अप्रत्ययाऽघुट्सम्भवश्च श्वौदन इत्यादिषु, अथाऽवुडित्यत्र पर्युदासात् स्यादिर्लक्ष्यते, तन्न-प्रसृज्यवृत्तिनिराकरणे हेतोरभावात् । प्रियशुनी इति स्त्रियां तु बहुव्रीही "नोपान्त्यवतः" [ २. ४. १३. ] इति त्रयाणामपि ङीप्रतिषेधः, उपान्त्यवत्ता च श्वनशब्दस्य “न व-मन्त०" [२. १. १११.] इति प्रतिषेधात्, इतरयोस्त्वनेनोत्वविधानात्, यत् तु प्रियशुनीति दृश्यते तत्-प्रथममेव ङ्यां कर्मधारये । शौवनम्-10 शुन इदमिति कार्य, विकारे तु “एकस्वरात्" [ ६. २. ४८. ] इति मयट् स्यात् । अतिश्वानीति-अतिक्रान्तः श्वा यैरिति वाक्यम्, तत्पुरुषे तु “गौष्ठाऽतेः शुनः" [७. ३. ११.] इति समासान्तः स्यात् । गोष्ठश्वेनेति-गोष्ठे श्वेव “सप्तमी शौण्डायैः" [ ३. १. ८८.] [इति] सः, “गोष्ठाऽते:०" [७. ३. ११.] इत्यट। नन्वत्र समासान्तः समासस्यावयवो भवति, ततश्चानेनाधुट्स्वरादिप्रत्ययस्य व्यवधानात् प्राप्तिरेव नास्तीति किमुक्त-नका-15 रान्तनिर्देशादिति, अत्रोच्यते-भाष्यकारवचनाद् यथा समासान्तः समासावयवो भवति, एवमुत्तरपदावयवोऽपीष्यते, ततश्च श्वन्ग्रहणेन तदवयवत्वादस्यापि ग्रहणमित्यघुट्स्वरादिप्रत्ययस्य न व्यवधानमतो यदक्त नकारान्तनिर्देशादिति तत साध्वेव। मघवत इति-मघो ज्ञानं सुखं वाऽस्याऽस्तोति, मघा वा पाराधकाः सन्त्यस्य "ड्यापो बहुलम्०" [२. ४. ६६. ] इति ह्रस्वः । मातरिश्वनेति-मां तरति विच, मातरि-अन्तरिक्षे श्वयति20 "श्वन्-मातरिश्वन्" [ उणा० ६०२. ] इति साधुः, अत एव निर्देशात् स.म्यलुप् । २. १. १०६ ।।
लगातोऽनापः ॥ २. १. १०७ ॥
प्राप्वजितस्याऽऽकारस्य डीस्याद्यघुट्स्वरे परे लुग् भवति । कीलालपः, कीलालपा, कीलालपे, शुभंयः, शुभंया, शुभंये, क्त्वः, श्ने; हाहे देहि । आत25 इति किम् ? नदीः । अनाप इति किम् ? खट्वाः, शालाः, मालाः पश्य । ङी-स्याद्यघुट्स्वर इत्येव--कीलालपास्तिष्ठन्ति, कीलालपां पश्य, कीलालपाभ्याम् ।। १०७ ।।
न्या० स०--लुगा०। क्त्वा-टाशब्दयोः केचिदस्त्रीत्वं केचित् स्त्रीत्वं चेच्छन्ति, तत्र, स्त्रीत्त्वेऽनाप इति वचनादनेन लुगभावे-क्त्वायाः टायाः, इत्येव भवति, अस्त्रीत्वे30