________________
[पा० १. सू० १०५-१०६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०३
10
न्या० स०--अच्च् प्राग० । अथ दृषदमञ्चतीति क्विपि टादावनन्तरपूर्वस्वराभावे दीर्घत्वाभावादेकयोगनिर्दिष्टत्वादादेशस्याप्यभावात् कथं दृषच्चेत्यादि सिध्यतीत्याहअन्वाचयशिष्टत्वादिति-अथ व्यवहितस्यापि कथं न भवति ? सत्यम्-प्राक्शब्दस्यानन्तरार्थत्वात्, अत एव पूर्वशब्दमपास्य प्राक्शब्दोपादानमनन्तरार्थम्, अनु-पश्चाद्, प्राचयनंमीलनम्-अन्वाचयः, तेन शिष्टोऽन्वाचयशिष्टः। दीर्घो न भवतीति-स्थान्यासन्नत्वाद 5 ल कारः। दध्ययतीति-परत्वात् “समानानां०" [१. २. १.] इति दीर्घ बाधित्वा गुणः, तथाऽत्र मतान्तराभिप्रायेण "न वृद्धिश्चाविति०" [४. ३. ११.] इति दधीकारवृद्धिनिषेधः, किङिल्लोपे सत्यविति प्रत्यये परे गुण-वृद्धी न भवत इति मतान्तरे व्याख्या । अथवा स्वर-व्यानयोरभेदन्यायेन "स्वरस्य०" [ ७. ४. ११०. ] इति अच्स्थानित्वमतो वृद्धेरभावः ॥ १०४ ॥
क्वसुष मतौ च ॥ २. १. १०५॥
णि-क्य-घुडजिते ‘यकारादौ स्वरादौ मतौ च प्रत्यये परे क्वस् उष् भवति । विदुषि साधुः--विदुष्यः, पेचुषि साधु:--पेचुष्यः; विदुषः; विदुषा, विदुषे, विदुषी स्त्री कुले वा, विदुष इदं-वैदुषम्, पेचुषः, पेचुषा, पेचुषे, पेचुषी स्त्री कुले वा, पेचुष इदं--पैचुषम् ; विदुष्मान्, पेचुष्मान् । मतौ चेति किम् ? 15 विद्वद्भिः, पेचिवद्भिः, विद्वत्काम्यति । अरिण-क्य-घुटीत्येव--विद्वांसमाचष्टेविद्वयति; विद्वस्यति, विद्वस्यते; विद्वांसौ, विद्वांसः, विद्वांसि कुलानि ।। १०५ ॥
न्या० स०--क्वसुष्म०। पेचुष्य इति । आगमा यद्गुणीभूता०% इतीट्सहितस्य क्वस उष् । उषिति षकारस्य “नाम्यन्तस्था०" [२. ३. १५.] इति सिद्धे प्रक्रिया-20 लाघवार्थ षकारकरणम् ।। २. १. १०५ ।।
श्वन्-युवन्-मघोनो डी-स्याद्यवरे व उ.
॥२. १. १०६ ॥ श्वन् युवन् मघवन्नित्येतेषां सस्वरो वकारो ङी-स्याद्यघुट्स्वरे परे उर्भवति । शुनी स्त्री, प्रियशुनी कुले, शुनः, शुना, शुने; अतियूनी स्त्री,25 प्रिययूनी कुले, यूनः, यूना, यूने; मघोनी, अतिमघोनी स्त्री, प्रियमघोनी कुले, मघोनः, मघोने । डीस्याद्यघुट्स्वर इति किम् ? शौवनम्, यौवनम्, माघवनम् । अघुटिति किम् ? श्वानौ, युवानौ, मघवानौ, अतिश्वानि, अतियुवानि, अति