________________
२०२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
. [पा० १. सू० १०३-१०४.]
णावकारलोपः शसि त्वादेशः, यदा व्यञ्जनान्ताणिज् तदा "नैकस्वरस्य" [ ७. ४. ४४.] । इत्यन्त्यस्वरादिलोपाभावः । कश्चिदिति-देवनन्दी ॥२. १. १०२ ।।
उदच उदीच् ॥ २. १. १०३ ॥
उदचिति उत्पूर्वस्याञ्चतेः कृतनलोपस्य निर्देशः, उदचो नाम्नोऽणिक्य-घुटि यकारादौ स्वरादौ च प्रत्यये परे 'उदीच्' इत्ययमादेशो भवति । 5 उदीच्यः; उदीचः पश्य, उदीची स्त्री कुले वा, उदीचा, उदीचे । य-स्वर इत्येव-उदग्भ्याम्, उदक्काम्यति। अरिण-क्य-घुटीत्येव--उदञ्चमाचष्टेउदयति; उदञ्चमिच्छति-उदच्यति, उदगिवाचरति--उदच्यते; उदञ्चौ, उदञ्चः, उदञ्चि कुलानि । अच इति लुप्तनकारस्याञ्चेनिर्देशाद्--उदञ्चा, उदञ्चे, क्विप्यर्चायां निषेधान्नलोपाभावः ।। १०३ ।।
10 न्या० स०-उदच०। उदयतीति-ननु रिणवर्जनं किमर्थम् ?, न च वाच्यंरिणवर्जनाभावे उदीचादेश: स्यात्, यतो भवतु-उदीचादेशः, तथापि "त्र्यन्त्यतस्वरादे:" [७. ४. ४३. ] इति लोपे उदयतीति भविष्यति, अत्रोच्यते-विशेषविहितत्वाल्लुकं बाधित्वा प्रथममेवादेश: स्यात्, तथा च सकृद्गते स्पर्धे० इति न्यायान् पश्चादपि न स्यात् ।। २.१.१०३ ।।
15
अच्च प्राग दीर्घश्च ।। २. १. १०४ ।।
अचिति--अनकारस्याञ्चेनिर्देशः, अचिति नाम णि-क्य-घुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे चकारमात्रं भवति, प्राक्--पूर्वोऽनन्तरस्वरश्च दीर्घो भवति । प्राच्यः, प्रतीच्यः; प्राचः, प्राचा; दधीचः, दधीचा; मधूचः, मधूचा; पितृ चः, पितृ चा; प्राची, प्रतीची स्त्री कुले वा । अन्वाचयशिष्टत्वाद्20 दीर्घत्वस्य तदभावेऽपि चादेशो भवति-दृषच्चा, दृषच्चे; अत्र *स्वरस्य ह्रस्वदीर्घ-प्लुताः इति न्यायाद् दृषदो दीर्घो न भवति । य-स्वर इत्येवप्रत्यग्भ्याम्, मध्वग्भ्याम् । अणि-क्य-घुटीत्येव-दध्यञ्चमाचष्टे-दध्ययति; दध्यच्यति, दध्यच्यते; दध्यञ्चौ, दध्यञ्चः, दध्यञ्चि कुलानि । अच इति लुप्तनकारस्याञ्चेर्ग्रहणादिह न भवति-साध्वञ्चः पश्य, साध्वञ्चा,25 साध्वञ्चे ।। १०४ ॥