________________
[पा० १. सू० १०२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २०१
अत एव चान्द्र-भोजौ मन्येते-पाद-पद्शब्दाभ्यामपि पदा, पादेनेत्यादि सिद्धं, परं पद्शब्दश्चरणवाच्येव, पादशब्दस्य त्वनेकार्थस्यापि ‘पदा, पादेन' इत्यादि सिद्धयर्थं पादशब्दोपादानन् । हृदय-हृद्भयां सिद्धे हृदयोपादानमृषौ विशेषार्थम्-हृदः हृदयान् ऋषीन् । हृद्शब्दस्तु ऋषिवचनो नास्ति ।। २. १. १०१ ।।
य स्वरे पादः पदणि-क्य-त्रुटि ॥ २. १. १०२॥ 5
पादिति पादशब्दस्य लुप्ताकारस्य पादयतेर्वा कृतणिलोपस्य निर्देशः, पादन्तस्य नाम्नो णि-क्य-घुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे पदित्यमादेशो भवति; स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्यैव भवति न तदन्तस्य सर्वस्य । व्याघ्रस्येव पादावस्य--व्याघ्रपात्, तस्यापत्यम्-- वैयाघ्रपद्यः; द्वौ पादावस्य द्विपात-द्विपदः पश्य, द्विपदा, द्विपदे, त्रिपदी गाथा; 10 व्याघ्रपदी स्त्री कुले वा; द्वौ द्वौ पादौ ददाति--द्विपदिकां ददाति, द्विपदे हितम्-- द्विपदीयम्; पादमाचष्टे पद्यमानं प्रयुक्त वेति पादयतेः क्विपि पाद्-पदः पश्य, पदा, पदे, पदी कुले; अत्र व्यपदेशिवद्भावेन पादन्तत्वम् । य-स्वर इति किम् ? द्विपाट्याम्, द्विपाद्भिः, द्विपात्काम्यति । अणि-क्य-घुटीति किम् ? पादमाचष्टे--पादयति ; क्येति क्यन्-क्यङोरविशेषेण ग्रहणम्, व्याघ्रपादमिच्छति15 स इवाचरतीति च--व्याघ्रपाद्यति, व्याघ्रपाद्यते, द्विपादौ, द्विपादः, द्विपान्दि कुलानि । नाम्न इत्येव--उपपद्यत इत्येवंशील उपपादुकः । पादयतेः क्विबन्तस्य प्रयोगो नास्तीति कश्चित् ।। १०२ ।।
न्या० स०--य-स्वर०। पादन्तस्य नाम्न इति-पूर्वसूत्रेषु नाम्न इत्यधिचक्राणोऽपि नाऽध्याहारि, धातोस्तत्रासम्भवात्, अत्र धातुसम्भवे नाम्न इति विशेषणं20 चक्रे। अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह-निर्दिश्यमानस्येति । द्विपदिकामिति-"संख्या समाहारे च०" [३. १. ६६.] इति सुप्रख्यादेरित्यकल् (?) ["सुसंख्या द्" ७. ३. १५०. इति पाद्, “संख्यादे." ७. २. १५२. इत्यकल् ] अलोपश्च, ननु "अवर्णेवर्णस्य" [७. ४. ६८.] इति सिद्धेऽकल्सन्नियोगे किमल्लोपेन, सत्यम्-स्थानित्वाभावार्थम्, अन्यथा “स्वरस्य०" [७. ४. ११०.] इति स्थानित्वे पादशब्दाभावान्न स्यात्25 पदादेशः। पादमाचष्टे पादयतीति-अत्र व्यञ्जनान्तः पाच्छब्दो लिख्यते, सस्वरे तु णिज्यल्लोपे "स्वरस्य०" [७. ४. ११०.] इति स्थानित्वे पाच्छब्दाभावाद् द्वयङ्गविकलत्वं स्यात्, तहि पादमाचष्ट इति वाक्ये पदः पश्येति यद् दर्शितं तत् कथम् ?, उच्यतेप्रत्यासत्तिन्यायाद्, यस्मिन् प्रत्ययेऽकारलोपस्तस्मिन् यद्यादेशोऽपि प्राप्नोति, अत्र तु