________________
२०० ]
बृह वृत्तिलघुन्याससंवलिते
[पा० १. सू० १००-१०१.]
मास-निशा-99सनस्य शसादौ लग वा ॥ २. १. १०० ॥
एषां शसादौ स्यादौ परे लुगन्तादेशो वा भवति । मासः, मासान् ; मासि, मासे; निशः, निशाः; निशि, निशायाम् ; निज्भ्याम्, निशाभ्याम् ; निच्छु, निशासु; आसनि, आसने । शसादाविति किम् ? मासौ, मासाः, मासरूप्यः ।। १०० ।।
न्या० स०--मास-निशा०। स्यादाविति-स्यादेरन्यः शसादिर्न सम्भवतीति स्यादावुदाहारि, अथ “संख्यैकार्थात्०" [७. २. १५१.] इति शस्संभवस्तदादिशब्दस्याकलादोनामसंभवेनानर्थक्यम्, यद्वा मण्डूकप्लुत०* न्यायेन स्यादिरनुवर्तनीय इति, आदिशब्दस्य व्यवस्थावाचित्वाद् वा स्यादिरेव लभ्यते । मासशब्दस्य भ्याम्यनेनान्तलोपे *असिद्धं बहिरङ्गम् ०* इति अकारस्थानित्वेन “सो रुः" [२. १. ७२.] इति रुत्वाभावे10 "धुटस्तृतीयः" [२. १. ७६.] इति दत्वे तु न्यायानित्यत्वात्-माद्भयामिति मन्यते भाष्यकृत, दुर्गस्तु-मास्भ्यामिति, स्वमते तु द्वयमपि भवति । निजभ्यामिति-अत्र निश्शब्दे सत्यपि निशाग्रहणं निज्म्यामित्यस्य सिध्यर्थं, निश्शब्दस्य हि भ्यामि निडभ्यामित्येव भवति, क्विबन्तत्वाद् धातुत्वे “यजसृज०" [ २. १. ८७. ] इत्यादिना षत्वप्राप्तेः ।। २. १. १०० ।।
15
दन्त-पाद-नासिका हृदया-सुग-यूषोदक-दोर्यकृच्छकृतो दत्-पन्नम-हदसन्-यूषन्नुदन-दोषन् यक-शकन् वा
॥२. १. १०१ ॥ दन्तादीनां यथासंख्यं शसादौ स्यादौ परे दत् इत्येवमादय आदेशा वा भवन्ति । दन्त-दतः, दन्तान् पश्य; दता, दन्तेन ; दद्भ्याम् ३, दन्ताभ्याम् ३; 20 दद्भिः , दन्तैः; दत्सु, दन्तेषु; पाद-पदः, पादान्; पदा, पादेन; नासिकानसः, नासिकाः; नसा, नासिकया; हृदय--हृदि, हृदये; असृज्--अस्ना, असृजा; यूष--यूष्णा, यूषेण; उदक-उना, उदकेन; दोस्-दोष्णा, दोषा; यकृत्-यक्ना, यकृता; शकृत्--शक्ना, शकृता; शक्नि, शकनि, शकृति । शसादावित्येव--दन्तौ, दन्तकल्पः ।। १०१ ।।
न्या० स०-दन्तपाद० । ननु पूर्वैश्छन्दोविषयत्वमेषामुक्तमिति "मास-निशा." [२. १. १००.] इत्यादि सूत्रं निरर्थकम्, सत्यम्-भाषायामपि क्वचित् पदादयः प्रयुज्यन्त इति ज्ञापनार्थत्वात् , अत एव प्रविरलप्रयोगविषयत्वात् सर्वासु विभक्तिषु नोदाह्रियते ।
25