________________
२०६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ११२-११४.]
न्या० स०--न व-मन्त । अत्र वकार मकारयोः संयोगविशेषणत्वेन "विशेषणमन्तः" [७. ४. ११३. ] इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थन्, अन्यथा व-मसंयोगादिति समस्तनिर्देशेऽनयोरेव संयोगादित्याशङ्का स्यात्, वमः संयोगादिति व्यस्तनिर्देशेऽपि वकार-मकाराभ्यां परो यः संयोगस्तस्मादित्यपि प्रतीयेतेति न्यासकारः। प्रतिदीन्नेतिप्रतिदिवा-अहः, अपराण्हश्च ।। २. १. १११ ।।
हनो हनो घनः ॥ २. १. ११२ ॥
हन्तेः'ह्न' इत्येवंरूपस्य घ्न इत्ययमादेशो भवति । भ्र णघ्नी स्त्री, भ्रूणघ्ना, भ्र णघ्ने, भ्रूणघ्नी कुले, भ्र गघ्नि, घ्नन्, घ्नन्ति, अघ्नन् । हन इति किम् ? प्लीह नः, अह्नः, अह नी; अहि न । ह्र इति किम् ? वृत्रहणौ, वृत्रहयति ।। ११२ ।।
10 न्या० स०-हनो०। भ्र रणनीति-"नवा शोणादेः" [ २. ४. ३१. ] इति ङी: प्रत्ययः । प्लीह न इत्यादिषु हन् इति हन्तेरनुकरणात्, अर्थवद्ग्रहण०* इति न्यायाद् वाऽन्यस्य न भवति ।। २. १. ११२ ।।
लगस्यादेत्यपदे ॥२. १. ११३ ॥
अपदेऽपदादावकारे एकारे च परेऽकारस्य लुग् भवति । सः, तौ, ते; 15 युष्मभ्यम्, अस्मभ्यम्, पचन्ति, पठन्ति, विवक्षन्, पचे, यजे । अस्येति किम् ? अदन्ति, आसे । अदेतीति किम् ? श्रमणे, संयते । अपद इति किम् ? दण्डाग्रम्, तवैषा ॥ २. १. ११३ ॥
न्या० स०-लुगस्या०। अपद इति अदेतोविशेषणम् । दण्डाग्रमिति-नन्वत्र "वृत्त्यन्तोऽसषे" [१. १. २५.] इति प्रतिषेधादन इत्यस्य पदत्वाभावात् कथं नाकारलोपः,20 सत्यम्-सावधारणव्याख्यानात्-अपद एवेति, अत्र वृत्तेः पूर्व पदत्वमासीदिति; तहि प्रायणमित्यत्र गतिकारक०% इति न्यायादविभक्त्यन्तेनाऽयनेत्यनेन समासे प्राप्नोति, सत्यम्-अपद इत्युत्तरपदमपि.गृह्यते, "ते लुग् वा" [३. २. १०८.] इत्युत्तरशब्दलोपादिति, यथा "वेदूतोऽनव्यय०" [२. ४. ६८.] इत्यत्र ।। २. १. ११३ ।।
डित्यन्त्यस्वरादेः ॥ २. १. ११४ ॥
25 स्वराणां सन्निविष्टानां योऽन्त्यः स्वरस्तदादेः शब्दरूपस्य डिति परे