________________
१९६ ]
बृहद्वृत्तिलधुन्याससंवलिते
[पा० १. सू० ६२-६४.]
नामन्ये ॥२. १. ६२॥
आमन्त्र्येऽर्थे वर्तमानस्य नाम्न: सम्बन्धिनो नकारस्य लुग् न भवति । हे राजन् ! , हे तक्षन् ! , हे सीमन् ! , हे बहुराजन् ! ; एतदेव प्रतिषेधवचनं ज्ञापकम्--सिलुकः स्थानिवद्भावेन “अधातुविभक्ति०" [१. १. २७.] इति नामसंज्ञाप्रतिषेधो न भवतीति । 'हे राजवृन्दारक !' इत्यत्र समुदायार्थ 5
आमन्त्र्यो नावयवार्थ इति नलोपप्रतिषेधो न भवति, अवयवार्थस्य त्वामन्त्र्यत्वेऽसामर्थ्यात् समास एव न स्यात् ।। ६२ ।।
न्या० स०-नामन्ये। 'आमन्त्र्ये' इत्येकवचनात् 'पञ्च, सप्त' इत्यादीनां नलोपनिषेधो न भवतीति चन्द्रगोमीयमतम् । अन्ये त्वेतेषामामन्त्रणमपि नेच्छन्ति, अमुमेवार्थं न्यासकारः स्पष्टयति-अत्रामन्त्र्य इति सामान्याभिधानेऽपि औ-जसो कारस्य पदान्तत्वा-10 भावाद् द्रव्यस्यैव सम्बोधनार्हत्वात् संख्यायाश्चाऽसत्त्वरूपत्वात् परिशिष्ट: सिरेव लभ्यते, संख्येयेऽपि वर्तमानायाः संख्याया आमन्त्रणादर्शनात्, दर्शने तु 'आमन्त्र्ये' इत्येकत्वस्य विवक्षित्वाद् द्विवचन-बहुवचनयोन लोपाभावः; 'अामन्त्र्ये' इत्येकवचनाद् यत्रक एवामन्त्र्यस्तत्रैवानेन लोपनिषधो यत्र बहवस्तत्र न, यथा 'हे पञ्च पुरुषाः' इत्यादौ । ननु हे राजन्नित्यादौ सिलुक: स्थानिवद्भावेन “अधातुविभक्ति०" [ १. १. २७. ] इत्यनेन 15 नामत्वाभावे पूर्वेण प्राप्तिरेव न, किं प्रतिषेधेन ? इत्याह-एतदेवेति । न च वाच्यं सिलुक: स्थानिवत्त्वेन "नाम सिद्०" [१. १. २१.] इति पदत्वं प्राप्नोति, तस्मिश्च सति नलुक भविष्यतीति, यतः “स्थानीवाऽवर्णविधौ” [ ७. ४. १०६. ], अत्र तु व्यानलक्षणो वर्णविधिरिति स्थानित्वं न प्रवर्तत इति ।। २. १. ६२ ॥
20
क्लीबे वा ॥ २. १. ६३ ॥
आमन्त्र्यविषयस्य नाम्नः क्लीबे-नपुंसकलिङ्ग वर्तमानस्य नस्य लुग् वा भवति । हे चर्म ! , हे चर्मन् ! ; हे दाम ! , हे दामन् ! ।। ६३ ।।
मा-वर्णान्तोपान्ता-पञ्चमवर्गान्मतोर्मो वः ॥२.१.६४॥
मश्चावर्णश्च मावणौं, तो प्रत्येकमन्तोपान्तौ यस्य तस्मात्-मकारान्तान्मकारोपान्ताच्चावर्णान्तादवर्णोपान्ताच्च, पञ्चमरहितवर्गान्ताच्च नाम्न:25 परस्य मतोर्मकारस्य वकार आदेशो भवति । मकारान्तात्-किंवान्, इदंवान्, शंवान्-मकारोपान्तात्-शमीवान्, लक्ष्मीवान्, दाडिमीवान्; अवर्णा; न्तात्