________________
[पा० १. सू० ६५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १९७
वृक्षवान्, प्लक्षवान्, खट्वावान्, मालावान्; अवर्णोपान्तात्-अहर्वान् सुगण्वान्, पयस्वान्, दृषद्वान्, वार्वान्, भास्वान् ; अपञ्चमवर्गात्-मरुत्वान्, विद्युत्वान्, उदश्वित्वान्, तडित्वान्, समिद्वान् । मा-ऽवन्तिोपान्ता-ऽपञ्चमवर्गादिति किम् ? अग्निमान्, वायुमान्, पितृमान्, नृमान् । नृमतोरपत्यं नार्मत इत्यत्र तु वृद्धे बहिरङ्गलक्षणत्वान्न भवति ।। ६४ ।।।
न्या० स०--मावर्णा० । अत्र मकारा-ऽवर्णयोरन्तोपान्ताभ्यां सह यथासंख्यं न "नोादिभ्यः' [ २. १. ६६. ] इति निषेधस्य व्यर्थत्वात्, यत ऊर्मिमानित्यत्र मान्तत्वस्य यवमानित्यत्रावर्णोपान्तत्वस्याभावात्. "भोगवद् गौरिमतो:०" [३. २. ६५. ] इति निर्देशाद् वा। बहिरङ्गलक्षणत्वादिति-तद्धितापेक्षत्वेन वृद्धिर्बहिरङ्गा, तदनपेक्षं तु वत्वमन्तरङ्गमिति ।। २. १. ६४ ।।
10
नाम्नि
॥ २. १. ६५ ॥
नाम्नि-संज्ञायां विषये मतोर्मकारस्य वकारादेशो भवति । अहीवती, कपीवती, मणीवती, मुनीवती, ऋषीवती; एवंनामानो नद्यः; "नद्यां मतुः" [७. २. ७२.] इति चातुरथिको मतुः । आसन्दीवान् नाम ग्रामः ।। ६५ ।।
___ न्या० स०--नाम्नि। नाम द्विविधं, देवदत्तादि निरूढलक्षणाकं लौकिकं यत्15 संज्ञेति प्रसिद्धम्, "अधातविभक्ति०" [ १.१.२७. ] इति शास्त्रीयं च, तत्र प्रत्यासन्नत्वाच्छास्त्रीयस्यैव ग्रहणे प्राप्ते नामाधिकारेणैव तदर्थस्य लाभान्नाम्नीत्यतिरिच्यमानमधिकार्थपरिग्रहाय भवल्लौकिकमेव ज्ञापयतीत्याह-संज्ञायामिति । प्रासन्दीवानिति-पासते जना अस्मिन्नित्यासनं, तद् विद्यते यस्मिन् ग्रामे इत्यासनशब्दस्य पृषोदरादित्वादासन्दीभावेऽनेन मतोर्वत्वे आसन्दीवान् ग्रामः, आसन्दोवद् अहिस्थल; संज्ञाया अन्यत्र-20 आसनवानित्येव भवति, यथा च संज्ञाया अभावाद् वत्वा-ऽऽआसन्दीभावयोरभावस्तथा "अनजिरादिबहुस्वरादि०" [३. २.७८.] दीर्घत्वस्यापि । अपरे त्वासन्दीशब्दोऽस्तीति मन्यन्ते, आसम्-आसिक्रियां नन्दति-अणि पृषोदरादित्वात्, आसेर्धातोः "कुमुद०" [६.२.६६. ] इति वा-पासन्दी-वेत्रासनं, साऽत्रास्ति मध्वादिः [ "मध्वादे: ६. २. ७३ । इति मतुः ]; वेदे यथा-आसन्दीमारुह्य ऊद्गातेति, लोके यथा-औदुम्बरी राजासन्दी25
भवति, उदुम्बरस्य विकार:-औदुम्बरी, राज्ञ आसन्दी-राजासन्दी, सोमासनमित्यर्थः ।। २. १. ६५ ॥