________________
१९४ ]
बृहद्वृत्ति-लधुन्याससंवलिते
[पा० १. सू० ६०.]
पुंरूप्यः, पुंमयः, पुंजातीयः; एवं- 'गोमान्, अनड्वान्, महान्, भूयान्, कुर्वन्, । श्रेयान्' इत्यादौ संयोगान्तलोपस्य परकार्येऽसत्त्वादुत्तरसूत्रेण नलोपो न भवति, स्यादिविधौ चासत्त्वादत्वादिलक्षणो दीर्घो भवति । पदस्येति किम् ? स्कन्त्वा, स्यन्त्वा; 'भवाञ्च् शेते' इत्यादौ तु ञ्चादेशविधानसामर्थ्यान्न भवति ।। ८६ ॥
न्या० स०-पदस्य। पदान्ते वर्तमानस्येति-पदस्य विशेष्यस्य "विशेषणमन्तः" [७. ४. ११३.] इति परिभाषया संयोगान्तस्येति स्थिते पदान्ते वर्तमानस्येति व्याख्यातम्, अत्र पदान्ते संयोगस्य लुग् भवतीत्युच्यमानेऽपि संयोगान्तस्य पदस्यैव लोप इत्यर्थस्य सिद्धत्वात् पदस्येति वचनं पदान्तसम्बद्धधुनिवृत्त्यर्थन्, तेन स्कन्त्वेत्यादौ धुडादौ लुक् न भवति । भूयानिति अपदसंज्ञकेऽपि तद्धिते “अस्वयं वोऽव्" [७. ४. ७०.] न, “भूलुक्10 च०" [७. ४. ४१.] इत्यत्र ऊकारप्रश्लेषात्, न च भूविधानादेव न भविष्यतीति वाच्यम्, विधानं भमेत्यत्र पदसंज्ञके चरितार्थन । सामर्थ्यान्न भवतीति-अन्यथा प्रक्रियालाघवार्थं अकारमेव विदध्यादित्यर्थः ।। २. १. ८६ ॥
रात् सः ॥ २. १.६० ॥
पदान्ते वर्तमानस्य संयोगस्य सम्बन्धिनो रेफात् परस्य सकारस्यैव15 लुग् भवति । चिकीः, चिकीाम्, चिकीर्षु; अत्र चिकीर्षतीति क्विपि “अतः" [४. ३. ८२.] इत्यकारलोपे षत्वस्य परेऽसत्त्वात् सकारस्यैव लोपः; एवंजिहीः, जिहीाम्, जिहीर्ष; कटचिकीः, पटजिहीः । पूर्वेणैव सिद्धे नियमार्थं वचनम्, तेन रात् परस्य संयोगान्तस्य सस्यैव लोपो नान्यस्य-ऊ, ऊग्ाम्, न्यमा गृधेः स्पर्धेश्च यङ्लुपि द्वित्वे "रिरौ च लुपि” [४. १. ५६.] इति20 पूर्वस्य रागमे “पागुणावन्यादेः" [४. १. ४८.] इति दीर्घत्वे च ह्यस्तन्याः सिवि आदेश्चतुर्थत्वे "लघोरुपान्त्यस्य" [४. ३. ४.] इति गुणे "सेः रद्धां च रुर्वा" [ ४. ३. ७६. ] इति सिव्लुकि धकारस्य च रुत्वे “रो रे लुग् दीर्घश्चादिदुतः” [१. ३. ४१.] इति रलोपे पूर्वस्य दीर्घत्वे अडागमे च सिद्धम्अजर्घाः, अपास्पाः । रादेव सस्येति तु विपरीतनियमो न भवति-"पुंवत्25 कर्मधारये” [ ३. २. ५७.] इत्यत्र पुंवदिति निर्देशात् ।। ६० ।।
न्या० स०--रात्सः। रात् परस्य सस्यैवेति-यद्येवम् 'अबिभः, अजागः' इत्यादी बिभर्तेर्जागर्तेश्च हस्तन्या दिवि "हवः०" [४. १. १२.] इति द्वित्वे अत्वे "पृ.भ०"