________________
[पा० १. सू० ८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १६३
संयोगान्तस्येति किम् ? साता, कृतम् । आदाविति किम् ? शङ्कर्वकैश्च यङ्लुपि-शाशक्ति, वावङ्क्ति। स्कोरिति किम् ? नर्नति । “अद्ड अभियोगे", "अट्टि हिंसाऽतिक्रमयोः" अनयोः क्विपि उत्तरसूत्रेण डकारटकारयोर्लुकि दकारस्य च प्रथमत्वे-क्षेत्रप्रात्, गृहप्रात् । अन्ये त्वटि तोपान्त्यं पठन्ति, तन्मते-क्विपि अत्, अद् । अन्यस्त्वद्डतेः संयोगादेर्दकारस्यापि 5 लोपमिच्छति, तन्मते-अट, अड्भ्याम्, तथा "अट्ट अतिक्रम-हिंसयोः" इति पठन् संयोगादेष्टकारस्यापि लोपमिच्छति-अट, अड्भ्याम् । धुट-पदान्त इत्येव-साधुमज्जौ, काष्टतक्षौ। प्रत्यय इत्येव-पृथक्स्थाता। वास्यर्थं काक्यर्थमित्यत्र तु यत्वस्य बहिरङ्गत्वेनासिद्धत्वात् संयोगादित्वेऽसत्यनेनादेरुत्तरेण चान्तस्य लुग न भवति । कथं मांसं पिपक्षति क्विप्-मांसपिपक्,10 वचो विवक्षते-वचोविवक् ?, कत्वस्य परस्मिल्लोपेऽसत्त्वान्न भवति ।। ८८ ।।
___ न्या० स०--संयोग०। संयुज्यन्ते वर्णा अत्रेति “व्यञ्जनाद्" [५. ३. १३२.] इति धनि संयोगः, स च वैयाकरणसंप्रदायाद् "व्य खननैरन्तर्यमुच्यते, दन्त्यापदिष्टम् इति न्यायात् तालव्यशस्य लुग् दशितः, दन्त्यस्य तु सस्य 'अवावग्' इत्यत्र "ककुङ श्वकुङ०" इति पठितस्य वस्केहूय इति । समुदायस्यैव लोपं विदध्यादिति-15 कया युक्तया ? संयोगेति प्रथम, पदस्येति द्वितीयम्, अन्ते चेति तृतीयं सूत्रं कुर्यात्, तत्राद्यस्यार्थः-धुटि प्रत्यये संयोगादिस्थयोः सकार-ककारयोलग भवति, द्वितीयस्यार्थ:पदान्ते वर्तमानस्य सकारककारादिसंयोगस्य सकलस्यापि लुक्, तृतीयस्यार्थ:- “पदस्य" इत्यतः पदान्त इत्यनुवर्तते, ततः पदान्ते संयोगसम्बन्धिनोऽन्तस्य लुग् भवतीत्यकरणाल्लुक: स्थानित्वं न भवति । अन्ये तु अटिमिति-तन्मत-स्वमतयो: “न बदनम् ०" [४. १. ५.]20 इत्यत्र विशेषः, तन्मते-अतिट्टिषते, स्वमते तु-अट्टिटिषत इति ! पृथक्स्थातेति । पृथक्शब्द: कान्तोऽव्ययम्, न तु “रुधि-पृधि०" [उणा० ८७४.] इत्यनेनाजन्तः, तदा "च-ज:०" [२. १. ८६.] इति गत्वस्य परेऽसत्त्वात् तदादेशस्य कत्वस्याप्यसत्त्वे द्वयङ्गविकलता स्यात् । मांसपिपगिति-नन्वत्र “स्वरस्य०" [७. ४. ११०.] इति स्थानिवद्भावेन पदोन्ते संयोगस्याभावात ककारलोपो न प्राप्नोति, न चासद्विधौ स्थानित्वनिषेध इति 25 वाच्यम्, अस्क्लुकीति भणनात्, सत्यम्-ननिर्दिष्टस्यानित्यत्वेन स्थानित्वाभावात् प्राप्तिविद्यते, यथा मधुगित्यत्र ।। २. १. ८८ ।।
पदस्य ॥ २. १. ८६ ॥
पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशो भवति, स च परे स्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः । पुमान्, पुम्भ्याम्, पुम्भिः, पुम्भ्यः, पुंसु, पुंवत्,30