________________
१६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ८८.]
गत्वेऽसत्त्वात् "च-जः क-गम्" [२. १. ८६.] इति गत्वं न भवति । च-ज इत्येव-वृक्षवृश्चमाचष्टे रणौ विचि-वृक्षव्, अत्र वकारस्य मा भूत् । कथमसृग्, असृग्भ्याम्, रज्जुसृग्, रज्जुसृग्भ्याम् ?, असृज्रज्जुसृज्शब्दयोरोणादिकयोर्भविष्यति । कश्चित् तु “अनुनासिके च च्छ्वः शूट" [४. १. १०८.] इति शत्वविधरनित्यत्वज्ञापनार्थं छकारस्यापि षत्वमिच्छति, तन्मते-पथिप्राच्छौ, 5 पथिप्राच्छः, शब्दप्राच्छौ शब्दप्राच्छः । “उच्छत् विवासे' समुच्छौ, समुच्छः ।। ८७ ।।
न्या० स०--यज-सृजः । क्तिरेव धुडिति-"तेहादिभ्यः" [ ४. ४. ३३. ] इति नियमात् क्तौ इडभाव इत्यर्थः, ननु यङ लुबन्तयोरनयोरन्योऽपि तिवादिधुट् संभवति, तत् कथं क्तिरेव धुडिति, सत्यम्-यङ लुबन्तयोरनयोर्धातुपारायणिकानामेव मते प्रयोग इष्यते,10 न वैयाकरणानामिति क्तिरेवेत्युक्तम् । साहचर्यार्थमिति-न चात्मनेपदानित्यत्वज्ञापनार्थ पुनः पाठ इति वाच्यम्, तदा ह्यात्मनेपदिष्वेव पुनः पठ्येत, नाप्येकस्य ट्वनुबन्धत्वादथुर्भवत्यन्यस्य नेति वाच्यम्. यतः ट्वनुबन्धादपि "असरूप०" [ ५. १. १६. ] इति सूत्राद् उत्सर्गः प्रतिष्यते, तस्मादेकेनापि धातुनाऽर्थाभेदेन प्रयोगद्वयं सिध्यति, परं साहचर्याय द्विः पाठ इति । कथमसृगिति-नपूर्वस्य सृजेः क्विबन्तस्य षत्वेन भाव्यम्, तत् कथं15 गत्वमित्याह-औरणादिकयोरिति-अस्यत इति न सृज्यत इति वा "रुधिपृथि०" [उणा० ८७४.] इति किदजि बाहुलकादेकत्रास्य ऋत्वेऽन्यत्र जकारा-कारयोर्लोपे चाऽसृजशब्दसिद्धिः। पथिप्राच्छाविति-पन्थानं पृच्छतः "दिद्यत०" [ ५.२. ८३.] इति क्विप । धुटि पदान्ते च पूर्वाण्येवोदाहरणानि, व्यावृत्तौ तु विशेषः । स्वमते तु पथिप्राशावित्याद्येव भवति ।। २.१.८७ ।।
20
संयोगस्यादौ स्कोलक ॥ २. १. ८८ ॥
धुटि प्रत्यये पदान्ते च यः संयोगस्तस्यादौ वर्तमानयोः सकारककारयोलुंग् भवति । अोलस्जैति-लग्नः, लग्नवान्, साधुलक्, साधुलग्भ्याम् ; मस्ज्-साधुमक्, साधुमग्भ्याम् ; अोवश्चौत्-वृक्णः, वृक्णवान्, मूलवृट्, मूलवृड्भ्याम् ; भ्रस्ज्-भृष्टः, भृष्टवान्, यवभृट्, यवभृड्भ्याम् ; क्-तक्षौ-तष्टः,25 तष्टवान्, काष्ठतट, काष्ठतड्भ्याम्, अक्षौ अष्टः, अष्टवान्, तृणाट, तृणाड्भ्याम्' तृणाटकल्पः; चक्षि-पाचष्टे । ननु स्कोर्लुकः परस्मिन्नसत्त्वात् "पदस्य" [२. १. ८६.] इति संयोगान्तस्य लोपः स्यात्, नैवम्-स्कोः पदान्ते लुको विधानादसत्त्वाभावः, अन्यथा हि समुदायस्यैव लोपं विदध्यात् ।