________________
[पा० १. सू० ८७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १९१
न्या० स०-च-जः०। 'धुट-पदान्त' इत्यस्य च-जाभ्यां क-गाभ्यां प्रत्येकमभिसंबन्धाद् यथासंख्याभावः, प्रत्येकमभिसंबन्धश्च "प्रागिनात्" [२. १. ४८.] "स्त्यादिविभक्तिः” [ १. १. १६. ] इति सूत्रनिद्दिष्टकत्व-गत्वरूपज्ञापकात्, किञ्च यदि 'धुट्-पदान्त' इत्यनेन सह यथासंख्यमभिप्रेतं स्यात् तदा “ऋत्विग्" [ २. १. ६६. ] इत्यधिकारे जग्रहणं कृत्वा गत्वं विदध्यादिति । अथात्र सूत्रे किमर्थमादेशद्वयविधानम् ? यावता 5 कविधानं गविधानं वा क्रियताम्, यथालक्षणं कस्य गत्वे गस्य कत्वे च सर्वसाध्यसिद्धेः, सत्यम्-गाऽभावे लग्नादयः, काऽभावे पक्वादयो न सिध्येयुरिति क-गग्रहणम् ।।२.१.८६।।
यज-सुज-मृज-राज-भ्राज-भ्रस्ज व्रश्चरवाजा शः षः
॥२. १. ८७॥ यजादीनां धातूनां च-जः शकारस्य च धुटि प्रत्यये परे पदान्ते च10 षकार आदेशो भवति । यज्-यष्टा, यष्टुम्, देवेट, उपयट्, उपयड्भ्याम् ; सृज्-स्रष्टा, स्रष्टुम्, तीर्थसृट, तीर्थसृड्भ्याम् ; मृज्-माष्र्टा, माष्टुंम्, कंसपरिमृट, कंसपरिमृड्भ्याम् ; राज्-सम्राट्, सम्राड्भ्याम् ; भ्राज्-विभ्राट्, विभ्राड्भ्याम् ; राज-भ्राजोः क्तिरेव धुट्, अन्यस्तु इटाव्यवधीयते, राष्टिः, भ्राष्टिः, केचित् तु क्ति नेच्छन्ति; भ्रस्ज्-भष्टा, भ्रष्टुम्, भा, भष्टुंम्, धानाभृड्, धाना-15 भृड्भ्याम् ; वश्च-व्रष्टा, व्रष्टुम्, मूलवृट, मूलवृड्भ्याम् ; परिव्राज्-परिव्राङ्, परिव्राड्भ्याम्, “दिद्युद्ददृद्” [५. २. ८३.] इत्यादिना क्विबन्तस्यैव निपातनाद् धुव्यसंभवान्नोदाहृतम् । शकारान्त-लिश्-लेष्टा, लेष्टुम्, लिट्, लिड्भ्याम् ; छादेशोऽपि शकारो गृह्यते-प्रष्टा, प्रष्टुम्, शब्दप्राड्, शब्दप्राड्भ्याम् । राजिसहचरितस्य भ्राजेर्ग्रहणात् “एजुङ् भेजुङ् भ्राजि दीप्तौ"20 इत्यस्य गत्वमेव-विभ्राक्, विभ्राग्भ्याम्; अत एव भ्राजेरात्मनेपदिनोऽपि "राजृग् टुभ्राजि दीप्तौ' इत्युभयपदिषु पुनः पाठः साहचर्यार्थम् । धुट्-पदान्त इत्येव-देवेजौ, देवेजः, रज्जुसृजौ, कंसपरिमृजौ, सम्राजौ, विभ्राजौ, धानाभज्जौ, मूलवृश्चौ, परिव्राजौ, शब्दप्राशौ, उच्छत्-समुशौ। यजादिधातुसाहचर्यात् शकारस्यापि धातोः संबन्धिन एव ग्रहणादिह न भवति-निशाशब्द-25
स्यान्तलोपे “धुटस्तृतीयः" [२. १. ७६.] इति जकारे-निज्भ्याम्, सुपि तु - जकारस्य प्रथमत्वे “सस्य श-षौ" [१. ३. ६१.] इति सुपः सकारस्य शत्वे
"प्रथमादधुटि शश्छः" [१. ३. ४.] इति छत्वे-निच्छु, जकारस्य तु परे