________________
[ पा० १. सू० ६२. ]
न्या० स०
"1
- मुह० । चेलस्निक् चेलं स्निह्यति - सिञ्चतीत्यर्थः, सेचनार्थत्वं त्वस्य " स्वस्नेहन ० ' [ ५. ४. ६५. ] इति सूत्रे स्निह्यतेऽनेनेति स्नेहनमुदकादीति दर्शनाद् विज्ञायत इति । ननु किं मुहादयः स्वरूपेणोपादीयन्ते ? मुहादेरित्येवोच्यताम्, न चैवं कृतेऽधिकानां प्रसङ्गस्तदनन्तरं वृत्करणात् तद्धि पुष्पादिवद् मुहादिपरिसमाप्त्यर्थमपि भविष्यतीत्याह-मुहादेरिति ।। २. ९ ८४ ।।
१६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
5
नहा-99होर्ध-तौ ॥ २. १. ८५ ॥
नहेर्ब्रग्स्थानस्याहश्च धातोः संबन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च यथासंख्यं धकार - तकारावादेशौ भवतः । नद्धा, नत्स्यति, उपानत्, परीणत्, उपानद्भ्याम्, उपानत्कल्पः; ग्रह - आत्थ, ग्रहेनियतविषयत्वात् पदान्तता नास्ति । धुट् - पदान्त इत्येव - उपनह्यति, उपानहौ, उपानहः; ग्राह, 10 श्राहतुः, आहुः । आहेरादेशान्तरकरणम् “प्रधश्चतुर्थात् त-थोर्धः” [२. १. ७६. ] इति थकारस्य धत्वनिवृत्त्यर्थम् ।। ८५ ।।
"1
न्या० स० - - नहाऽऽहो० । ब्रस्थानस्येति - अन्यस्यासंभवात् । आत्थेतिनन्वाहेरपि धकारे "प्रघोषे प्रथम ० ' [ १. ३.५०. ] इति तकारे कृते 'प्रत्थ' इति सिध्यतीत्युभयोरपि धकार एव क्रियतां, किं तकारकरणे नेत्याह- आहेरादेशान्तरेत्यादि न च 15 सिवस्थ विधानादेव घत्वं न भविष्यति, अन्यथा सिवो धत्वमेव विदध्यादिति वाच्यम्, यतो लाघवार्थं तद्भवे, अन्यथा “ब्रूगः पञ्चानाम् ०" [४.२.११८.] इत्यत्र “सिवो धः" इति सूत्रान्तरे कृते गौरवं स्यात्, तस्मात् सूक्तं धत्वनिवृत्यर्थमिति ।। २. १. ८५ ।।
2
च - जः क- गम् ॥। २. १. ८६ ।।
चकार-जकारयोर्धुटि प्रत्यये परे पदान्ते च ककार - गकारावादेशौ 20 भवतः । वक्ता, वक्तुम्, वक्ष्यति, ग्रोदनपक्, त्वक्, वाक्, वाग्भिः, वाक्त्वम्; जः–त्यक्ता, त्यक्तम्, त्यक्ष्यति, अर्धभाग्, स्वप्नग्, तृष्णक् । धुट्-पदान्त इत्येव - वच्मि, वाचौ, वाचः । प्रत्यय इत्येव - इच्छति, मज्जति । कथं तच्चुञ्चुः, तच्चरण:, तच्चरति ?, उच्यते - प्रत्र दस्य परत्वात् तृतीयत्वे पश्चाच्चवर्गत्वे प्रथमत्वम्, ततस्तृतीयस्य " च जः क - गम्" [ २. १. ८६. ] इति परेऽसत्त्वेन 25 च-जयोरभावात् कत्व-गत्वे न भवतः ; अज्झलावित्यत्र तु संज्ञाशब्दत्वान्न भवति ।। ८६ ।।
L