________________
[पा० १. सू० ८३-८४]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८६
द्वित्वे स्थानिवत्त्वादिति-ननु कथमत्र स्थानित्वम् ? प्रकारेण सह क्त ति द्विर्वचने कर्तव्ये पूर्वविधित्वाभावात्, सत्यम्-निमित्तापेक्षयापीह प्राविधिरिष्यते; यद्वा हत्' इत्यनयोः प्राग्विधित्वमस्त्येव, अवयवयोश्च समुदायोपचारात् 'ह त' इत्यस्यापि स्वरादेशस्थान्यन्तस्य प्राविधित्वमिति: यदि निमित्तापेक्षया प्राविधिरिष्यते, तहि नयनमित्यत्र स्वरादेशस्य गुणस्य स्थानित्वेऽयादेशो न प्राप्नोति, सत्यम्-निमित्तापेक्षया प्राग्विधित्वं प्रायिकमिति । 5 केचित् त्विति-चन्द्रगोमि-देवनन्द्यादयः ।। २. १. ८२ ।।
भ्वादेददिघः ॥ २. १. ८३॥
भ्वादेर्धातोर्यो दकारादिरवयवस्तदवयवस्य हकारस्य धुटि प्रत्यये परे पदान्ते च घकारादेशो भवति, ढस्यापवादः । दग्धा, दग्धुम्, धक्ष्यति; दोग्धा, दोग्धुम्, धोक्ष्यति; एषु व्यपदेशिवद्भावाद् धातोरवयवस्य दादित्वम्, अधा-10 क्षीत् । पदान्ते-अधोग्, गोधुक्, काष्ठधक्, गोधुग्भ्याम्, काष्ठधग्भ्याम्, गोधुक्षु, काष्ठधक्षु । भ्वादेरिति किम् ? दामलिहमिच्छति क्यन् क्विप्-दामलिट्, एवं दृषघुट । दादेरिति किम् ? सोढा, मधुलिट् । ह इत्येव-अदात् । धुट्पदान्त इत्येव-गोदुहो, गोदुहः ।। ८३ ।।
न्या० स०-भ्वादे०। यदि भ्वादेरित्यस्य दादेरिति समानाधिकरणं विशेषणं 15 भवेत् तदाऽदुग्धेत्यादयोऽडागमे कृते दादित्वाभावान्न सिध्येयुरिति भ्वादेरित्यस्य दादेरिति व्यधिकरणं विशेषणं व्याख्यातम् । नन्वत्र सर्वेष्वपि प्रयोगेषु घस्य गः क्रियते, ततो ग एव क्रियताम्, किं घकरणेनेति, सत्यम्-गकारे क्रियमाणे चतुर्थान्तत्वाभावादधोगित्यादी "ग-ड-द-ब०" [ २. १. ७७. ] इत्यादिना चतुर्थत्वं न स्यात् ।। २. १. ८३ ।। । मुह-दुह-स्नुह-स्निहो वा ॥ २. १. ८४ ॥
20 एषां संबन्धिनो हकारस्य धुटि प्रत्यये पदान्ते च घकारादेशो वा भवति, द्रुहः प्राप्तेऽन्येषामप्राप्ते विकल्पः । मुह,-मोग्धा, मोढा; उन्मुक्, उन्मुट्; उन्मुग्भ्याम्, उन्मुड्भ्याम् ; द्रुह -द्रोग्धा, द्रोढा; मित्रध्र क्, मित्रघ्र ट; मित्रध्र ग्भ्याम्, मित्रध्र ड्भ्याम् ; स्नुह,-स्नोग्धा, स्नोढा; उत्स्नुक्, उत्स्नुट्; उत्स्नुग्भ्याम्, उत्स्नुड्भ्याम् ; स्निह -स्नेग्धा, स्नेढा; चेलस्निक्, चेलस्निट ; 25
चेलस्निग्भ्याम्, चेलस्निड्भ्याम् । धुट्-पदान्त इत्येव-उन्मुहौ, उन्मुहः । मुहा'देरिति गणनिर्देशमकृत्वा धातुपरिगणनं यङ्लुप्यपि विध्यर्थम्-मोमोग्धि,
मोमोढि वा, दोद्रोग्धि, दोद्रोढि ।। ८४ ।।