________________
१८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ८२.]
न्धिनो धकारस्य ढकारो वा भवति । वचनभेदो यथासंख्यनिवृत्त्यर्थः । अग्राहिढवम्, अग्राहिध्वम् ; ग्राहिषीढ्वम्, ग्राहिषीध्वम् ; अनायिढ्वम्, अनायिध्वम् ; नायिषीढ्वम्, नायिषीध्वम् ; अकारिढ्वम्, अकारिध्वम् ; कारिषीढ्वम्, कारिषीध्वम्; अलाविढ्वम्, अलाविध्वम् ; लाविषीढ्वम्, लाविषीध्वम् ; परोक्षायां जिन संभवतीति नोदाहृतः । इट:-जगृहिढ्वे, जगृहिध्वे ; अग्रही- 5 ढ्वम् ; अग्रहीध्वम् ; ग्रहीषीढ्वम्, ग्रहीषीध्वम् ; उपदिदीयिट्वे, उपदिदीयिध्वे; आयिढ्वम्, प्रायिध्वम्; अयिषोढ्वम्, अयिषीध्वम् ; तत्वरिढ्वे, तत्वरिध्वे; अत्वरिढ्वम्, अत्वरिध्वम् ; त्वरिषीढ्वम्, त्वरिषीध्वम् ; ववलिवे, ववलिध्वे; अवलिढ्वम्, अवलिध्वम्; संवलिषीढ्वम्, संवलिषीध्वम्; लुलुविढ्वे, लुलुविध्वे; अलविवम्, अलविध्वम् ; लविषीढ्वम् लविषीध्वम् ।10 हान्तस्थादिति किम् ? धानिषीध्वम्, प्रासिषीध्वम् ।। ८१ ॥
न्या० स०--हान्त० । ब्रिटः स्वतन्त्रत्वात्, इटस्तु प्रत्ययावयवत्वेन प्रत्ययत्वाद् धातो म्यन्तत्वाभावे पूर्वेण न प्राप्नोतीत्यप्राप्त विभाषेयम् ।। २. १. ८१ ।।
होशुद-पदान्ते ॥ २. १. ८२ ॥
हकारस्य धुटि प्रत्यये परे पदान्ते च ढकारादेशो भवति । लेढा,15 लेक्ष्यति; वोढा, वक्ष्यति । पदान्ते-मधुलिट्, मधुलिड्भ्याम्, मधुलिड्भिः, मधुलिट्त्वम्, मधुलिड्वत्, मधुलिट्कल्पः। धुट-पदान्त इति किम् ? मधुलिहौ। असत् पर इत्येव-गुडलिण्मान् अत्र ढत्व-तृतीयत्वयोरसत्त्वात् "मावर्णा०" [२. १. ६४.] इत्यादिना मतोर्मो वत्वं न भवति । ऊढमाख्यत् औजढत्, अत्र ढत्वधत्वयोरसत्त्वादन्त्यस्वरादिलोपस्य च द्वित्वे स्थानिवद्-20 भावादकारेण सह ह त' इति द्विवचनम् । केचित् त्वन्त्यस्वरादिलोपस्य स्थानित्वमनिच्छन्तो 'हति' इति द्वित्वे ऊढमूढिं वाख्यत्-औजिढदिति मन्यन्ते ।। ८२ ।।
न्या० स०--हो धु० । मधुलिहाविति-यदा *गतिकारक०% इति न्यायाद् मधुशब्दस्य 'लिह' इत्यनेनाऽविभक्त्यन्तेन समासस्तदाऽन्तर्वतिविभक्त्यभावात् पदत्वप्राप्तिरेव25 नास्तीति यदापि 'लोढः' इति कृत्वा मधुनो लिहाविति विभक्त्यन्तेन समासस्तदापि "वृत्त्यन्तोऽसषे' [ १. १. २५. ] इति पदत्वाभाव इत्युभयथाप्यपदत्वं 'लिह' इत्यस्येति ।