________________
१८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ७८-७६.]
'द दध्वः, दद्ध्वहे' इत्यत्र यदा उभयो: स्थाने०* इति न्यायेन 'ध्व' इत्यस्य प्रकृतिप्रत्ययस्थाननिष्पन्नस्य प्रत्ययव्यपदेश: स्यात् तदा आदिचतुर्थत्वं भवेत्, सति तु प्रत्ययग्रहणे न्यायनिरपेक्षो यः प्रत्ययस्तस्मिन्न व भवति नेतरस्मिन् प्रत्ययग्रहणसामर्थ्यात् ।। २. १. ७७ ॥
धागस्त-थोश्च ॥ २. १. ७८ ॥
दधातेश्चतुर्थान्तस्य दकारादेरादेर्दकारस्य त-थयोः स्ध्वोश्च प्रत्यययोः परयोश्चतुर्थो भवति। धत्तः, धत्ते, धत्थः, धत्थ, धत्से, धत्स्व, धद्ध्वे धद्ध्वम् ; अत्रासद्विधित्वाद् वचनसामर्थ्याद् वाऽऽतो लोपस्य स्वरादेशत्वेऽपि स्थानिवद्भावो न भवति । गकारः किम् ? धयतेर्मा भूत्, ट्धेर्यङ्लुपि-दात्तः, दात्थः, दधातेरपि यङ्लुबन्तस्य मा भूत्,
*"तिवा शवाऽनुबन्धेन निर्दिष्टं यद्गणेन च ।
एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥"* इति न्यायात्-दात्तः, दात्थः । केचित् तु यङ्लुबन्तस्यापीच्छन्ति-धात्तः, धात्थः, धात्थ । तथोश्चेति किम् ? दध्वः, दध्मः । चतुर्थान्तस्येत्येव-दधाति, दधासि ।। ७८ ।।
10
न्या० स०-धागः । नन्वत्र चकारकरणं किमर्थं ? स्ध्वोः पूर्वेणैव सिद्धत्वात्, सत्यम्-यङ लुपि “क्रियाव्यतिहार०" [ ३. ३. २३. ] इति आत्मनेपदे से 'व्यतिधात्से' इति स्यात्, कृते चकारे 'व्यतिदात्से' इत्येव, न त्वादेश्चतुर्थः कृतिवा शवा०* इति न्यायात् ।। २.१.७८ ।।
अधश्चतुर्थात् त-थोधः ॥ २. १. ७६ ॥
- 20 चतुर्थात् परयोस्तकार-थकारयोर्धारूपवजिताद् धातोविहितयोः स्थाने धकार आदेशो भवति । दोग्धा, दोग्धुम्, अदुग्ध, अदुग्धाः; लेढा, लेढुम्, अलीढ, अलीढाः; बोद्धा, बोद्धम्, अबुद्ध, अबुद्धाः; लब्धा, लब्धम्, अलब्ध, अलब्धाः । अध इति किम् ? दधातेर्यङ्लुबन्तधयतेश्च मा भूत्-धत्तः, धत्थः, दात्तः, दात्थः । केचित् तु यङ्लुबन्तधयतेरपीच्छन्ति-दाद्धः, दाद्ध । विहित-25 विशेषणं किम ? ज्ञानभुत्त्वम्, अत्र नामविहिते त्वे मा भूत् ।। ७६ ।।