________________
[पा० १. सू० ७७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १८५
गर्धप्त्वम्; धर्मभुत्, धर्मभुद्भयाम्, धर्मभुत्त्वम् । स्ध्वोः-गुहौ-निघोक्ष्यते, न्यघूढ्वम् ; दुह -धोक्ष्यते, अधुरध्वम् ; बुध्-भोत्स्यते, बुभुत्सते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? क्रुत्, क्रोत्स्यति; जम्भेर्यङ्लुपि-अजंझप् अजंजप् । चतुर्थान्तस्येति किम् ? सुगण , दास्यति । एकस्वरस्येति किम् ? दाम लेढि क्विप्, दामलिहमिच्छति क्यन्, दामलिह्यति क्विप्-दामलिट् । स्ध्वोश्चेति । किम् ? धर्मबुधौ, बोद्धा । वर्णविधित्वेन स्थानिवद्भावो नास्तीति 'अबुद्ध, अबुद्धाः' इत्यत्र सिज्लुकि न भवति । धकारस्य वकारोपश्लिष्टस्य ग्रहणं किम् ? “दधि धारणे' इत्यस्य यङ्लुपि हौ धिभावे-दादद्धि । प्रत्यय इति किम् ? धाग् वस् द्वित्वम्, "श्नश्चाऽऽतः" [४. २. ६६.] इत्याकारलोपे "प्रदीर्घाद् विरामैकव्यञ्जने" [१. ३. ३२.] इति धकारस्य द्विर्भावे-दद्ध्वः,10 दद्धवहे ।। ७७ ।।
न्या० स०-ग-ड-द-बादे० । धातुरूपावयवस्येति-अत्र धातुरूपावयवस्येति विशेष्यम् अस्य च समासद्वयं-'पर्णधुड्' इत्यादौ सिसाधयिषिते धातुरूपश्चाऽसौ अवयवश्व 'गुह' इत्यादिः, अवयवश्चावयव्यपेक्षयाभिधीयत इति 'पर्णगुह' इत्यादिसमुदायोऽवयवी; 'तुण्ढिब्' इत्यादौ तु साधयितुमिष्टे धातुरूपस्यावयव इति षष्ठीसमासः, धातुरूपं 'तुण्डि'15 इत्यादि, तस्याऽवयवो 'डिम्' इत्यादिः; समासद्वयेऽपि च कुण्डमुम्भति-'कुण्डोब्' इति निरस्तन्, नहि 'कुण्डोब्' इत्यस्य समुदायस्य मध्ये 'डोब्' इति धातुरूपोऽवयवो नापि धातुरूपस्य अवयव इति आदिचतुर्थत्वाभावः; यद्वा धातुरूपस्यावयव इत्येवं षष्ठीसमास एव क्रियते, एवं च क्रियमाणे 'तुण्ढिब्' इत्यादीनि याद्यन्तवदेकस्मिन् इति न्यायनिरपेक्षाणि सिध्यन्ति, पर्णधुडित्यादीनि तु पाद्यन्तवदेकस्मिन् इति न्यायेन ; 20 अन्यच्च-स्ध्वौ प्रत्ययौ धातोरव्यभिचारिणाविति चानुकृष्टत्वेनानयोः साहचर्यात् पदान्त इत्यपि धातोरेवेति धातुरूपावयवस्येति, तस्यैव यक्तत्वादिति, रूपशब्दस्त भ्वाद्यभ्वादिधातुमात्रपरिग्रहार्थः । सकारादौ चेति-ध्वस्त्यादिप्रत्ययस्तदेकविभक्तिनिदिष्टत्वेन सकारोऽपि त्यादिरेवेति । तुण्डिभेति-"तुडुङ तोडने” अस्य "उदितः स्वरान्नोऽन्तः" [ ४. ४. ६८. ] इति नागमे “किलि-पिलि." [ उणा०६०८. ] इति इप्रत्यये-तुण्डिः ,25 सोऽस्याऽस्तीति “वलि-वटि-तुण्डेर्भः" [ ७. २. १६. ] इति भः । न्यघूवमिति-अद्यतन्या ध्वमि सकि "दुह-दिह०" [ ४. ३. ७४. ] इति तस्य लुकि अटि ढत्वे घत्वे “तवर्गस्य." [ १. ३. ६०. ] इति धस्य ढत्वे "ढस्तड्ढे" [ १. ३. ४२. ] इति ढलोपे रूपमिदम् । वर्णविधित्वेनेति-वर्णे सकाररूपे परतो विधिः । सिजुलुकि न भवतीति-ननु सिज्लोपात् पूर्वमेव किमिति नादिचतुर्थत्वम् ? नैव-परस्मिन् सिच्लोपरूपे कार्ये विधेये आदि-30 चतुर्थत्वस्याऽसदधिकारविहितत्वेनाऽसत्त्वात् । प्रत्यय इति किमिति-ननु प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव० * इति न्यायेन प्रत्यये एव भविष्यति, किं प्रत्ययग्रहणेन ? सत्यन्