________________
[ पा० १ सू०७४-७५.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८३
सजू षिभिः; सहपूर्वस्य जुषेः क्विपि सहस्य सभावे रूपमेतत् । सजूर्भ्याम्, सजूर्वत् । पदान्त इत्येव ? सजुषौ ।। ७३ ।।
न्या० स० -- सजुषः । डत्वापवादः । सजूरिति - प्रथमे सर्वज्ञवचनः, द्वितीये मुनिवचनः । सभावे इति श्रस्मादेव निर्देशात् ।। २. १. ७३ ।।
अह्नः ।। २. १.७४ ।।
अहन् शब्दस्य पदान्ते रुरित्ययमादेशो भवति, स चासन् परे स्यादिविधौ च । दीर्घाण्यहान्यस्मिन् हे दीर्घाहो निदाघ !, दीर्घाहा निदाघः, अत्र रुत्वस्यासत्त्वाद् नान्तलक्षणो दीर्घो भवति । कश्चित् तु दीर्घत्वं नेच्छति, तन्मते-दीर्घाहो निदाघः । अहोभ्याम् अहस्सु । ग्रहन् शत्रुमित्यत्राह शब्दस्य त्याद्यन्तस्य लाक्षणिकत्वान्न भवति ।। ७४ ।।
5
10
न्या० स० —— श्रह्नः । कश्चित् त्विति - दुर्गसिंहः । लाक्षणिकत्वादिति प्रयमभिप्रायः - उरणादयोऽव्युत्पन्नानि नामानि इत्यस्मिन् पक्षे नाम्नः प्रतिपदोक्तस्य संभवाल्लाक्षणिकस्य न ग्रहणमिति, व्युत्पत्तिपक्षस्तु इह नाश्रितः ।। २. १. ७४ ॥
रो लुप्यरि ।। २.१.७५ ।।
अन् शब्दस्य लुपि सत्यामरेफे परे पदान्ते रोऽन्तादेशो भवति, रोरप-15 वादः । प्रहरधीते, प्रहरेति, प्रहर्ददाति, अहर्भुङ्क्ते, दीर्घाहाश्चासौ मासश्च दीर्घाहर्मासः, ग्रहः–काम्यति, अहर्वान् । लुपीति किम् ? हे दीर्घाहोऽत्र । अरीति किम् ? अहोरूपम्, अहोरात्रः, गतमहो रात्रिरागता, कृत्स्नमहो रथन्तरं गायति, सर्वमहो रमयस्व, यातं शनैः सर्वमहो रथेन । अन्ये तु रात्रिरूप-रथन्तरेष्वेव रेफादिषु परेषु रेफप्रतिषेधमिच्छन्ति ।। ७५ ।।
20,
न्या० स०- - रो लुप्यरि । अहरधीते इति - "कालाऽध्वनो : ० " [ २.२.४२. ] द्वितीया । अहः काम्यतीति - "रोः काम्ये” [२. ३. ७.] इति नियमात् "प्रत्यये” [२. ३. ६. ] इत्यनेन न सकारः । हे दीर्घाहोऽत्रेति प्रत्र वाक्ये विभक्त लु बस्ति तत् कथं रो न भवति ? सत्यम् - लुपीति प्रत्यासत्त्या व्याख्येयम् - यदपेक्षया लुप्, पदत्वमपि यदि तदपेक्षया भवति, अत्र तु वाक्यविभक्त्यपेक्षया लुप्, साक्षाद्विभक्त्यपेक्षया तु पदत्वम् ; 25 वाक्यविभक्त्यपेक्षयैव पदत्वमपीति न च वाच्यम्, “वृत्त्यन्तोऽसषे” [ १. १. २५.] इति