________________
१८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ७०-७३.]
इत्यनेन बहुवचनात् किदज् ।। २. १. ६६ ॥
नशो वा ॥ २. १. ७० ॥
नशेः पदान्ते गोऽन्तादेशो वा भवति । जीवस्य 'नशनम-जीवनग जीवनक्; पक्षे-जीवनड्, जीवनट; जीवनग्भ्याम्, जीवनड्भ्याम् । पदान्त इत्येव-जीवनशौ ॥ ७० ॥
न्या० स०-नशो वा। जीवतीति अच, जीवस्य कोऽर्थः ? जीवस्य जीवतो वा नशनं "भ्यादिभ्यो वा [५. ३. ११५.] इति क्विप् ॥ २. १. ७० ।।
युजञ्च-क्रुञ्चो नो छः ॥ २. १. ७१ ॥
युज्-अञ्च्-क्रुञ्चां नकारस्य पदान्ते वर्तमानस्य डकार आदेशो भवति । युनक्त: क्विपि, घुटि नागमे, संयोगान्तलोपे-युङ; अञ्चतेरनर्चायां नलोपे,10 घुटि नागमे, अर्चायां तु नलोपाभावे-प्राङ्, प्राङ्भ्याम्, प्राङ्घ, प्राक्षु;. क्रुञ्चेरत एव निर्देशाद् “नो व्यञ्जनस्यानुदितः [४. २. ४५.] इति नलोपाभावे-क्रुङ, क्रुभ्याम्, क्रुषु; क्रुक्षु । पदान्त इत्येव-युजौ, युजः; प्राञ्चौ, प्राञ्चः; क्रुञ्चों, क्रुञ्चः ।। ७१ ।।।
न्या० स०-युजञ्च० । ननु न इति किमर्थं ? “षष्ठयान्त्यस्य" [७. ४. १०६.]15 इति सर्वेषामन्तस्यैव नस्य भविष्यति, सत्यम्-"युजिच समाधी" इत्यस्यापि पदान्ते 'युङ' इत्यनिष्ट म्, अपदान्ते "क्रुञ्च गतौ" इत्यस्य 'क्रुचौ कुच' इत्यपि अनिष्टे स्याताम्, अधुना तु नकारे कृते सूत्रसामर्थ्यान्न तस्य लुग, इत्यपि फलम् ।। २. १. ७१ ।।
सो रुः ॥ २. १. ७२ ॥
पदान्ते वर्तमानस्य सकारस्य रुरादेशो भवति । मित्रशी:, आशी:,20 अग्निरत्र, वायुरत्र, अग्निर्गच्छति, पयः, पयोभ्याम्, पयोवत् । उकारः “अरोः सुपि रः' [१. ३. ५७.] इत्यत्र विशेषणार्थः ।। ७२ ।।
सजुषः ॥ २. १. ७३ ॥ 'सजुष्' इत्येतस्य पदान्ते वर्तमानस्य रुरन्तादेशो भवति । सर्देवैः,