________________
[पा० १. सू० ६६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १७६
"नाम्युपान्त्य-कृ-गृ.-श -पृ.-पूङभ्यः कित्" [उणा० ६०६.] इति किति इप्रत्यये वा; एवं गिर्योः, किर्योरिति । बहिरङ्ग-लक्षणस्येति-प्रत्ययाश्रितत्वेन यत्वं बहिरङ्गदीर्घत्वं तु प्रकृतिमात्राश्रितत्वेनान्तरङ्गम् ।। २. १. ६५ ।।
कुरु-च्छुरः ॥ २. १. ६६ ॥
कुरु-च्छुरोः संबन्धिनो नामिनो रेफे परे दी? न भवति । कुर्यात्, 5 कुर्वः, कुर्मः; छुर्यात्, छुर्यते । कुवित्युकारः किम् ? “कुरत् शब्दे"-कुर्यात्, कूर्यते; केचिदस्यापि प्रतिषेधमिच्छन्ति । अथ द्विर्वचने पूर्वस्य कस्माद् दी? न भवति ?-री: रिर्वा--रिर्यतुः, रियुः; वी:-विव्यतुः, विव्युः; बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् 'संविव्याय, विव्याध' इत्यादौ तु नामिनोऽसिद्धत्वात् ।। ६६ ।।
10 न्या० स०--कुरु० । कुवित्युकारः किमिति-अन्यथा प्रतिपदोक्तत्वात् "कुरत् शब्दे' इत्यस्यैव ग्रहणं स्यात्; तहि “कृ-छुरः” इति निर्विवादं क्रियताम्, न च वाच्यं "कृ-छुरः” इति कृते “कृगट हिंसायाम्" इत्यस्यापि ग्रहणं स्यात्, कृरणोतीत्यादौ रेफाभावात् करिष्यतीत्यादौ तु नाम्यभावेन दीर्घत्वप्राप्तेरभावाच्चेति, उच्यते-एवंविधे सूत्रे कृते चिकीर्षतीत्यादौ दीर्घनिषेधः स्यात् । संविव्याय, विव्याधेति-"व्यंग् व्यधंच्” प्राभ्यां15 गवि "व्यस्थव-णवि' [ ४. २. ३. ] इत्यात्वप्रतिषेधे द्वित्वे अनादिव्यञ्जनलोपे "ह्रस्वः" [ ४. १. ३६.] इत्यनेन ह्रस्वत्वे तस्य च कार्यान्तरबाधनार्थं "ज्या-व्ये-व्यधि०" [४.१.७१.] इति इकारस्यापीत्वे प्रथमे प्रयोगे "नामिनोऽकलि-हलेः" इति एत ऐत्वे आयि च सिद्धम् । नामिनोऽसिद्धत्वादिति-द्वित्वे कृते प्रत्ययाश्रितत्वेन बहिरङ्गस्य प्रकृत्याश्रितत्वेनान्तरङ्ग दीर्घत्वे कर्तव्ये "ह्रस्वः" [ ४. १. ३६. ] इत्यनेन कृतस्य इकारस्य20 इत्यर्थः, न तु य्वृद्धाधनार्थं "ज्या-व्ये-व्यधि०" [ ४. १. ७१. ] इति कृतस्य इकारस्यापि मध्ये इकारस्यासिद्धत्वं, यतस्तस्यासिद्धत्वे "ह्रस्वः" [ ४. १. ३६. ] इत्यनेन कृत इकारः सिद्धः स्या, तस्य च नामित्वात् ततो 'नामिनोऽसिद्धत्वाद्' इति यदुक्त तद् व्याहतं स्यात् । ननु 'नामिनोऽसिद्धत्वाइ' इति किमित्युक्त ? यावता यद्यप्यत्रानेन दी? भविष्यति तथापि "ह्रस्वः" [ ४. १. ३६. ] इत्यनेन ह्रस्वे कृते संविव्यायेत्यादि सेत्स्यति,25 सत्यम्-ह्रस्वरूपे परस्मिन् कार्ये विधेये दीर्घत्वं दीर्घत्वशास्त्रं वाऽसिद्धं भवतीति; यदापि नित्यत्वाद् विशेषविधानाद् वा "ह्रस्वः" [ ४. १. ३६. ] इति बाधित्वा ज्या-व्ये-व्यधि०" [ ४. १. ७१. ] इति प्रवर्तते तदापि प्रत्ययाश्रितत्वेन बहिरङ्गत्वेनासिद्धत्वान्नामिनोऽभावाद् दीर्घाऽभावः । कुर्दते, कुर्दनेत्यादिषु 'ट्वोस्, र्जा' इति ज्ञापकाद् दीर्घत्वं न भवति, कथं ? यदि रेफोपान्त्यानां दीर्घः स्या। तदा "ट्वोस् र्जा वज्रनिर्घोष' इत्यस्यापि दीर्घः30 सिद्ध इति दीर्घोच्चारणं न कर्त्तव्यम्, तस्मादत्र दीर्घ कुर्वन् ज्ञापयति-म्वादेरित्ययं विधिरनित्यः ।। २. १. ६६ ।।