________________
१७८ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६५.]
भ्वादेर्नामिनो दीर्घो भवति । गीः, गीाम्, गीर्षु, गीस्तरा, गीरर्थः; धू:, । धूर्मान् ; आशीः, आशीभिः; सजूः, सजूःषु; पिपठीः, पिपठीWः । पदान्त इति किम् ? गिरी, गिरः; लुवौ, लुवः । नामिन इत्येव-अजागः । ऊरित्येवमधुलिट् । भ्वादेरित्येव- अग्निः, वायुः, चतुभिः ।। ६४ ।।
न्या० स०--पदान्ते । पिपठीरिति-ननु 'भ्वादेः संबन्धिनो नामिनो दीर्घः' 5 इत्युक्तम्, तत् कथमत्र 'पिपठिष्' इत्यस्याऽभ्वादिरूपस्य संबन्धिनो नामिनो दीर्घ इति ? सत्यम्-म्वाद्यवयवेन 'पठ्' इत्यनेन योगात् समुदायोऽपि “पिपठिष्' इत्येवंरूपो भ्वादिः; यद्येवं पूर्वसूत्रोदाहृतेषु 'चतुभिः, चतुर्थः' इत्यादिष्वप्यनेन प्रकारेण म्वादिसंबन्धित्वमस्त्येव तद् कथं न दीर्घः ? सत्यम्-धातुत्वे सति म्वाद्यभ्वादिचिन्ता क्रियते, अत्र तु धातुत्वस्याप्यभावः, तर्हि 'कुकुरीयति, चतुर्यति, दिव्यति' इत्यादिषु धातुत्वमस्ति ततोऽनेन10 प्रकारेण भ्वादित्वमप्यस्ति ततो दीर्घः स्यात्, सत्यम्-यद्यप्येषां प्रत्ययान्तानां धातुत्वमस्ति तथापि पिपठीरित्यादिवदेतेषु न म्वाद्यवयवात् प्रत्ययो विधीयते, किं तर्हि ? नाम्न एव, ततो म्वाद्यवयवयोगाभावात् 'कुर्करीय' इत्यादेः समुदायस्य न भ्वादित्वम् । आशीरिति प्रत्र नित्यमपि विसर्ग बाधित्वा नित्यादन्तरङ्गम् इति न्यायात प्रथममनेन दीर्घः, ततो विसर्गः ।। २. १. ६४ ।।
15
न यि तदिद्यते ॥ २. १. ६५ ॥
यकारादौ तद्धिते परे यो वौं तयोः परयो मिनो दीर्घो न भवति । धुरं वहति-धुर्यः, गिरि साधुः-गिर्यः; वकारान्तो धातु म्युपान्त्यस्तद्धिते न संभवति । यीति किम् ? गीर्वत्, धूर्वत् । तद्धित इति किम् ? गिरमिच्छतिगीर्यति, धूर्यति; गीरिवाचरति-गीर्यते, एवं-धूर्यते; क्ये-कीर्यते, गीर्यते ; 20 दीव्यति, सीव्यति; कीर्यात्, गीर्यात्, दीव्यात्, सीव्यात् । केचित् तु क्यन्क्यङोरपि प्रतिषेधमिच्छन्ति, तन्मते-गिर्यति, गिर्यते ; धुर्यति, धुर्यते,' इत्येव भवति । इह कस्मान्न भवति ?- पुर्याम्, गिर्यो:, किर्योः, बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् ।। ६५ ।।
न्या० स०-न यि त०। नाम्युपान्त्य इति-अयमर्थः-यदा 'दिव्' इत्यादेः क्विप्25 तदा ऊटा भाव्यमिति न वकारान्तत्वम्, यदा तु विच् तदा गुणे कृते एकारस्य दीर्घरूपस्य दीर्घकरणं व्यर्थम् ; ननु दिव्यमित्यत्र संभवति वान्तो नाम्युपान्त्यश्च धातुः, सत्यम्-अत्रापि डिवप्रत्ययान्तस्य औणादिकत्वाद् दिवो न धातुत्वमिति न वान्तो नाम्युपान्त्यश्च धातुः संभवति । पुर्यामिति-पुरशब्दाज्जातित्वाद् ङ्यां "पृश् पालन-पूरणयोः" इत्यस्मात्