________________
१८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ६७-६८.]
मो नो म्-वोश्च ॥ २. १. ६७ ॥
मकारान्तस्य भ्वादेरन्तस्य पदान्ते वर्तमानस्य मकार-वकारयोश्च परयोनकारादेशो भवति, स चासन् परे । प्रशान्, प्रतान्, प्रदान्, परिक्लान्; प्रशान्भ्याम्, प्रतान्भ्याम्, प्रदान्भ्याम्, परिक्लान्भ्याम् ; नत्वस्यासत्त्वान्नलोपाभावः । म्-वोः खल्वपि-जङ्गन्मि, जङ्गन्वः, जङ्गन्मः, जगन्वान्; नन्नन्मि, 5 नन्नन्वः, नन्नन्मः । म्वोश्चेति किम् ? प्रशामौ, प्रतामौ । म इति किम् ? छित्, भित् । भ्वादेरित्येव-इदम्, किम् ।। ६७ ।।
न्या० स०--मो नो०। पदान्त इत्यनुवर्तमानेन समुच्चयार्थश्चकारो न तु पदान्त इत्यस्याऽनुकर्षणार्थः । विधानसामर्थ्याल्लोपाभावो नाशङ्कनीयो म्वोविधानस्य चरितार्थत्वादित्याह-नत्वस्यासत्त्वादिति । खल्वपीति-अप्यर्थेऽखण्डमव्ययम् ।। २. १. ६७ ।। 10
सन्स-हवन्स्-क्वस्सनहहोदः ॥ २. १. ६८ ॥
स्रन्स्-ध्वन्सोः क्वस्प्रत्ययान्तस्य सकारान्तस्यानडुह शब्दस्य च योऽन्त्यस्तस्य पदान्ते वर्तमानस्य दकारो भवति । उखास्रत्, उखास्रद्; पर्णध्वत्, पर्णध्वद्; विद्वद्, विद्वत् कुलम् ; उपसे दिवद्, उपसेदिवत् कुलम् ; स्वनडुद्, स्वनडुत् कुलम् ; उखास्रद्भ्याम्, पर्णध्वद्भिः, विद्वत्सु, विद्वत्ता, उपसेदिवत्तमः,15 अनडुद्भयाम् । क्वस्सिति द्विसकारपाठः किम् ? सान्तस्यैव यथा स्यात्, इह मा भूत्-विद्वान्, हे विद्वन् !, उपसेदिवान्, हे उपसेदिवन् ! ; सकारस्य "पदस्य" [२. १. ८६.] इति लोपेन निवर्तितत्वात् । एवं तर्हि 'अनड्वान्, हे अनड्वन्' इत्यत्र नकारस्यापि प्राप्नोति, तत्र विशेषणाभावात्, नैवम्नकारविधानसामर्थ्यान्न भविष्यति । एतच्च दत्वं येन नाप्राप्ते०* इति20 न्यायाद् रुत्व-ढत्वयोरेव बाधकम्, संयोगान्तलोपे पुनः प्राप्ते चाप्राप्ते चारभ्यत इति तस्य बाधकं न भवति । पदान्त इत्येव-उखास्रसौ, पर्णध्वसौ, विद्वांसौ, अनड्वाहौ ।। ६८ ।।
न्या० स०--संस्-ध्वंस्-क्वस्स० । उखास्रदिति-उखयापुतेन स्थाल्या वा स्रसते । ननु दकारकरणं किमर्थं ? तकार एव क्रियताम्, यतस्तकारेऽपि कृते “धुटस्तृतीयः"25 [२. १. ७६.] इत्यनेन दकारो भविष्यति, नैवम्-तकारे विधीयमाने परेऽसदिति वचनाद्