________________
१७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ५६-५८.]
न्या० स०-वाऽम्-शसि । अत्र षष्ठीबहुवचनस्य नाम् विषयत्वेन स्वरादित्वा- । भावात् शस्साहचर्याच्च तुल्यायामपि संहितायां द्वितीयैकवचनस्यैव ग्रहणम्, स्त्रीशब्दस्य संख्यकार्थत्वाभावाद् तद्धितशसोऽनुत्पत्तेः सङ ख्यैकार्थत्वयोगादुत्पत्तौ वा स्वरादित्वाभावाद् द्वितीयाबहुवचनस्यैव शसो ग्रहणात्, अतस्तस्याऽव्यभिचारात् तेन साहचर्यम् । कयन्नाद्यन्तस्येति-अथ धातुरूपस्यैव स्त्रीशब्दस्य विकल्पार्थमिदं कस्मान्न भवति ? कथमूक्त-5 "धातोरिवर्णोवर्ण०" [ २. १. ५०. ] इत्यादिना नित्यमियादेश इति, उच्यते- "स्त्रियाः" [ २. १. ५४. ] इति प्रागारम्भादधातोरेव स्त्रीशब्दस्य ग्रहणम्, स एव चाऽनुवर्तते, न चानुवर्तमानस्यान्यथात्वं भवति, यदाह श्रीशेषराज:-'नहि गोधा सर्पन्ती सर्पणादहिर्भवति' इति, तस्माद्युक्तमुक्त- "धातोरिवर्णोवर्ण०" [२. १. ५०.] इत्यादिना इयादेश इति ।। २. १. ५५ ।।
10
योऽनेकस्वरस्य ॥२. १. ५६ ॥
धातोरित्यनुवर्तते, अनेकस्वरस्य धातोः संबन्धिनः प्रत्यासत्तेरिवर्णस्य स्थाने स्वरादौ प्रत्यये परे यकारादेशो भवति । चिच्यतुः, चिच्युः; निन्यतुः, निन्युः । सखायमिच्छति क्यन् क्विप्-सखीः, सख्युः; एवं-पत्युः, सख्यि, पत्यि । अनेकस्वरस्येति किम् ? नियौ, नियः, परमनियौ, परमनियः । “रिं15 पित् गतौ” रियति, पियति । इवर्णस्येत्येव ? लुलुवतुः, लुलुवुः ।। ५६ ।।
न्या० स०--योऽनेक० । धातोरित्यनुवर्तत इति- विशेषातिदिष्टः प्रकृतं न बाधते इति न्यायाद् इय्बाधकमिदम् । परमनियाविति-पत्र समासस्यानेकस्वरत्वं न धातोः ।। २. १. ५६ ॥
20
स्यादौ वः ॥ २. १. ५७ ॥
अनेकस्वरस्य धातोः संबन्धिनः प्रत्यासत्तेरुवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । वसुमिच्छति क्यन् क्विप्-वसूः, वस्वौ, वस्वः । स्यादाविति किम् ? लुलुवुः ।। ५७ ।।
न्या० स०-स्यादौ वः । उव्बाधनार्थमिदम् । वसुमिच्छतीति-देवमग्नि राजानं वेत्यर्थः, द्रव्यवृत्तिस्तु नपुंसकः ।। २. १. ५७ ।।
क्विन्वृत्तेरसुधियस्तौ ॥ २. १. ५८ ॥ क्विबन्तेनैव या वृत्तिः-समासः, तस्या असुधियः-सुधीशब्दवजितायाः
25