________________
. [पा० १. सू० ५६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १७३
संबन्धिनो धातोरिवर्णोवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे तौ-यकारवकारादेशौ भवतः । उन्न्यौ, उन्न्यः; सुल्वौ, सुल्वः; तिरोन्यौ, तिरोन्यः; तिरोल्वौ, तिरोल्वः; ग्रामण्यौ, ग्रामण्यः; खलप्वौ, खलप्वः; एषु स्याद्युत्पत्तेः प्रागेव क्विबन्तेन समासः । एवं नयनशीलो-नी:, सेनां नेता-सेनानीः, सेनान्यौ, सेनान्यः; यद्वा नयतीति-नीः, पश्चात् साधनेन योगः; परमस्य नेता-परमनी:, 5 परमन्यौ, परमन्यः; क्विबग्रहणादिह न भवति-परमश्चासौ नीश्च-परमनी:, परमनियौ, परमनियः; स्याद्यन्तेनात्र विशेषणसमासो न तु क्विबन्तेन । वृत्तिग्रहणादिह न भवति-ब्राह्मणस्य नियौ । असुधिय इति किम् ? सुष्ठु ध्यायति दधाति वा-सुधी: “दिद्युद्" [५. २. ८३.] इत्यादिना क्विप् धीभावश्च, सुधियौ, सुधियः । सुपूर्वस्यैव वर्जनादिह भवत्येव-प्रध्यौ, प्राध्यौ,10 उद्धयौ ।। ५८ ।
__न्या० स०--विब्वत्ते । क्विबन्तेनैवेति-नन्वत्रावधारणं कस्माल्लब्धम् ? उच्यते वृत्तिस्थस्य धातोः स्यादौ कार्यविधानात् तस्य च केवलस्य वृत्त्यसंभवाद् वृत्तिगृहणादेव क्विपि लब्धे क्विन्ग्रहणमवधारणार्थम्, अत एवावधारणस्य शब्दाश्रयत्वादसामर्थ्यमपि नास्ति । सेनानीरिति-सेना नेतेत्यर्थकथनम्, यांवता सेनाशब्दस्य षष्ठयन्तस्य15 संगतिकारक० इति न्यायेन नीशब्देन क्विबन्तेन “कृति" [३. १. ७७.] इति समासः, न च वाच्यं “न नाम्यैक०" [ ३. २. ६. ] इति नियमेन द्वितीयैव प्राप्नोति, न षष्ठी, तत् कथं ? "कृति" [३.१. ७७. ] इति समासः, उच्यते- “ङस्यक्त कृता" [ ३.१.४६.] इत्यस्यैव विषयेऽयं नियमो न “कृति" [ ३. १. ७७. ] इत्यस्य । यदापि नयतीति-नी:, पश्चात् तु परमशब्देन कर्मषष्ठयन्तेन कारकत्वात् स्याद्युत्पत्तेः पूर्व क्विबन्तेन समासस्तदापि20 यत्वं भवतीत्याह-यदत्यादि-उभयत्राप्यर्थभेदाभावात् प्रक्रियाभेदमात्रमेतदुपदशितमिति, परमार्थस्तु सोपपदादेव क्विप् । ननु बहवः सेनान्यो यस्येति कृते यत्वं भवति वा न वा ? भवत्येव, यतः सेनानीशब्दस्य क्विबन्तेन वृत्तिरस्ति। परमनीरिति-परमशब्दस्याकारकत्वात् क्विबन्तेन समासाभावात् क्विब्ग्रहणादिह यत्वं न भवति ॥ २. १. ५८ ।।
हन्-पुन-वर्षा-कारभुवः ॥ २. १. ५६ ॥
25
'दृन् पुनर् वर्षा कार' इत्यतैः सह या क्विब्वृत्तिस्तत्संबन्धिनो भुवो धातोरुवर्णस्य स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । दृन्-हिंसन् भवतीति-दृन्भूः-सविषः कीटविशेषः, दृन्भ्वौ; दृन्भ्वः । पुन :-पुनरूढा