________________
[पा० १. सू० ५४-५५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १७१
संयोगादित्येव-सुन्वन्ति, चिन्वन्ति। स्वर इत्येव-भ्र:, प्राप्नुतः । प्रत्यय इत्येव-भ्र वग्रम् ।। ५३ ।।
___ न्या० स०--भ्रश्नोः । संयोगात् परस्येति विशेषणं श्नोर्न तु 5 शब्दस्याव्यभिचारात् ।। २. १. ५३ ।।
स्त्रियाः ॥ २. १. ५४ ॥
स्त्रीशब्दसंबन्धिन इवर्णस्य स्वरादौ प्रत्यये परे इयादेशो भवति । स्त्रियौ, स्त्रियः, स्त्रियाम् ; परमस्त्रियौ, अतिस्त्रियौ नरौ। शस्त्रीशब्दसंबन्धिनस्त्वनर्थकत्वाद् न भवति । स्वर इत्येव-स्त्रीभिः । प्रत्यय इत्येवस्त्र्यर्थः । कथम् 'अतिस्त्रयः, अतिस्त्रिणा, अतिस्त्रये, अतिस्त्रेः २, अतिस्त्रौ' ? "इदुतोऽस्त्रेरीदूत्" [१. ४. २१.] इत्यत्र स्त्रीशब्दवर्जनात् परोऽपीयादेशो10 बाध्यते । स्त्रीणामित्यत्र तु प्रागेव नाम्, एतच्च "वेयुवोऽस्त्रियाः" [१. ४. ३०.] इत्यत्रोक्तम् । पृथग्योग उत्तरार्थः ।। ५४ ।।।
न्या० स०-स्त्रियाः। स्त्रियामित्यत्र निरनुबन्धग्रहणे०* इति न्यायाद् "ह्रस्वापश्च" [१. ४. ३२.] इत्यनेन नाम् न । परमस्त्रियाविति- ॐग्रहणवता०% इति नोपतिष्ठते "वेयुवः०" [ १. ४. ३०. ] इत्यत्र 'अस्त्रियाः' इति निर्देशात्, यद्वा स्वरादि-15 प्रत्ययेन प्रकृतेराक्षेपात् स्त्रिया इति तस्या विशेषणत्वेन तदन्तसंप्रत्ययात् तदन्तस्याप्युदाहरणम् । तहि शस्त्रीशब्दस्यापि स्त्र्यन्तत्वादियादेशः प्राप्नोतीत्याह- अनर्थकत्वादिति । एतच्चेति- 'अस्त्रियाः' इति निर्देशात् परादपि इयुव्यत्वादिकार्यात् 'प्रथममेव स्त्रीदूदाश्रितं कार्यं भवति' इत्याधुक्त तत्रेत्यर्थः ।। २. १. ५४ ।।
20
वाम्-शसि ॥२. १. ५५ ॥ · स्त्रीशब्दसंबन्धिन इवर्णस्यामि शसि च परे इयादेशो वा भवति । स्त्रियम्, स्त्रीम् ; स्त्रियः, स्त्रीः; परमस्त्रियम्, परमस्त्रीम् ; परमस्त्रियः; परमस्त्रीः; अतिस्त्रियम्, अतिस्त्रिम् नरम्; अतिस्त्रियः, अतिस्त्रीन् नरान् । क्यन्नाद्यन्तस्य तु धातुत्वात् “धातोरिवर्ण०" [२. १. ५०.] इत्यादिना नित्यमियादेशः-स्त्रीमिच्छति स्त्रीवाचरति वा-स्त्री ब्राह्मणः, तं स्त्रियम्, तान्25 स्त्रियः ।। ५५ ।।