________________
१७० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ५१-५३.]
ननु "स्त्रियाः” [ २. १. ५४. ] इत्यनेनापि इय् सिद्धः किमत्रोदाहरणेन ? सत्यम्-तेन नाम्न इय् भवति, अनेन तु धातोः, अत एव यत्र क्लिबन्तः स्त्रीशब्दो भवति तत्रानेन "वाऽम्-शसि" [२. १. ५५.] इति विकल्पो बाध्यते ।। २. १. ५० ।।
इणः ॥ २. १. ५१ ॥
इणो धातोः स्वरादौ प्रत्यये परे 'इय्' इत्ययमादेशो भवति, यत्वाप-5 वादः । ईयतुः, ईयुः । कथं यन्ति, यन्तु ? परत्वेन “हि वणोरप्विति व्यौ” [४. ३. १५.] इति यत्वस्यैव भावात् । 'अयनम् अायकः' इत्यत्रापि परत्वाद् गुण-वृद्धी एव ।। ५१ ।।
न्या० स०-हरणः। अत्र व्यभिचाराभावेऽपि धातोरित्यत्तरार्थमनवर्तनीयम । यत्वापवाद इति-"योऽनेकस्वरस्य" [ २. १. ५६. ] इति प्राप्तस्य । परत्वेनेति-शितीति 10 विशेषविहितत्वात् प्रकृष्टत्वेनेत्यर्थः, परत्वं तु स्पर्द्धाभावान्न घटते । परत्वादिति
पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ४ इति "योऽनेकस्वरस्य" [२. १. ५६.] इति प्राप्तं यत्वं बाधते, न तु गुण-वृद्धी। ईयतुरित्यत्र द्वित्वे कृते वार्णात् प्राकृतं बलीयः इति न्यायात प्रथममियादेशस्ततो दीर्घः ।। २.१.५१ ।।
15
संयोगात् ॥ २. १. ५२ ॥
धातुसंबन्धिन इवर्णस्योवर्णस्य च धातुसम्बन्धिन एव संयोगात् परस्य स्वरादौ प्रत्यये परे इयुवावादेशौ य्वोरपवादौ भवतः । यवक्रियौ, यवक्रियः; कटप्रुवौ, कटप्रुवः; शिश्रियतुः, शिश्रियुः । धातुना संयोगस्य विशेषणादिह न भवति-उन्न्यौ, उन्न्यः,; सकृल्ल्वौ, सकृल्ल्वः ।। ५२ ।।
न्या० स०--संयोगात् । वोरपवादाविति-"क्विब्वृत्तेः०" [२. १. ५८. ]20 "योऽनेकस्वरस्य" [ २. १. ५६. ] इति विहितयोः ।। २. १. ५२ ॥
भू-श्नोः ॥ २. १. ५३ ॥
'भ्र श्नु' इत्येतयोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उवादेशो भवति । भ्र वौ, भ्र वः, क्यन्क्विबन्तस्य "धातोरिवर्णोवर्णस्य.” [२. १. ५०.] इत्यादिनैवोवादेशः । प्राप्नुवन्ति, राध्नुवन्ति, तक्ष्ण वन्ति ।25