________________
[पा० १. सू० ४८-५०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६६
न्यासकारव्याख्या ।। २. १. ४७ ।।
प्रागिनात् ॥ २. १. ४८ ॥
अदसो मात् परस्य वर्णमात्रस्येनादेशात् प्रागुवर्णो भवति, अन्वित्यस्यापवादोऽयम् । अमुना पुसा कुलेन वा। इनादिति किम् ? अमुया स्त्रिया ।। ४८ ॥
बहुष्वेरी ॥ २. १. ४६ ॥
बहुष्वर्थेषु वर्तमानस्यादसो मकारात् परस्यैकारस्य स्थाने ईकार आदेशो भवति । अमी, अमीभिः, अमीभ्यः २, अमीषाम्, अमीषु। बहुष्विति किम् ? अमू कन्ये, अमू कुले । एरिति किम् ? अमूः कन्याः, अमून् नरान् । मादित्येव-अमुके, अमुकेभ्यः ॥ ४६ ।।
10 न्या० स०-बहुष्वेरी। अमुकेभ्यः अत्राक: तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणेऽपि उकारेण व्यवधानाद् अनेन ईत्वाभावः ।। २. १. ४६ ॥
धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये ॥ २. १. ५० ॥
धातुसंबन्धिन इवर्णस्योवर्णस्य च स्थाने स्वरादौ प्रत्यये परे यथासंख्यम् ‘इय् उव्' इत्येतावादेशौ भवतः । नियौ, नियः; लुवौ, लुवः; 15 अधीयाते, अधोयते; लुलुवतुः, लुलुवुः; नुनुवतुः, नुनुवुः; स्वमिच्छति कयन् क्विप्-स्वीः, स्वियौ, स्वियः; एवं-स्त्रियौ, स्त्रियः; अधीयन् । धातोरिति किम् ? लक्ष्म्याः । इवर्णोवर्णस्येति किम् ? म्लायति, वाचः । स्वर इति किम् ? नीः, लूः । प्रत्यय इति किम् ? न्यर्थः, ल्वर्थः । इयुवभ्यां गुण-वृद्धी परत्वाद् भवतः-नयनम्, लवनम् ; नायकः, लावकः ।। ५० ।।।
न्या० स०--धातेरिवर्णो०। युवर्णस्येति कर्तव्ये यदि वर्णोवर्णस्येति कृतं तद् विचित्रा सूत्रकृतिरिति दर्शनार्थम् । प्रत्यये इति-प्रत्ययाऽप्रत्यययो:०% इति न्यायेन प्रत्यय एव भविष्यति, किं तद्ग्रहणेन ? सत्यम्-न्यायानां स्थविरयष्टि* न्यायेन प्रवृत्तेः । नियो, नियः, इति-ननु गौरणमुख्ययो:०% इति मुख्यस्यैवेयुवौ प्राप्नुतः, नैवम्"स्यादौ वः" [२. १. ५७.] इति सूत्रस्यैतदपवादत्वाद् गौणस्यापि भवति । स्त्रियाविति-25
20