________________
१६४ ]
बृहद्वृत्ति- लघुन्याससंवलिते
अयमियं पुं-स्त्रियोः सौ ॥ २. १.३८ ॥
त्यदां सम्बन्धिनि सौ परे पुंल्लिङ्ग स्त्रीलिङ्गयोरिदमः स्थाने यथासंख्यम् ‘अयम्, इयम्' इत्येतावादेशौ भवतः । अयं पुमान् इयं स्त्री; परमायम्, अनयम्; परमेयम्, अनियम् । साविति किम् ? इमौ इमे । त्यदादिसम्बन्धिविज्ञादिह न भवति - प्रतीदं पुमान् स्त्री वा एवं - प्रियेदम् । पुं- स्त्रियोरिति 5 किम् ? पुंसि 'इयम्' स्त्रियाम् 'अयम्' मा भूत् । नपुंसके तु नित्यत्वात् प्रथममेव सेर्लुपि इदं कुलमित्यत्र प्रसङ्ग एव नास्ति । साकोऽप्ययमियमादेशौ भवतः - प्रयम्, इयम्; अन्ये त्वादेशे कृते पश्चादकमिच्छन्ति-प्रयकम्,
इयकम् ।। ३८ ।
[ पा० १. सू० ३८ - ४०.]
न्या० स०—–श्रयमियमित्यादि - पूर्ववदलौकिको निर्देशः, लुप्तप्रथमाद्विवचनान्तं 10 पदम् । पुं- स्त्रियोरिति किम् ? पुंसि इयं स्त्रियामयं मा भूदिति - ननु कथमिदमुक्तम् ? यावता नपुंसके प्रयमियमादेशनिवृत्त्यर्थं पु-स्त्रियोरिति वचनं स्यात्, तत्राह - नपुंसके तु नित्यत्वादित्यादि । *प्रपेक्षातोऽधिकार इति " अनक्" [ २. १. ३६. ] इत्यत्र न सम्बध्यते, तेन मतान्तरे साकोऽप्यादेशः । केषाञ्चिन्मते - अकारान्त आदेशः, से:
15
स्थाने म् ।। २.१.३८ ।।
दो मः स्यादौ ॥ २. १. ३६ ॥
त्यदां सम्बन्धिनि स्यादौ परत इदमो दकारस्य मकारादेशो भवति । इमौ, परमेमौ, इमे, इमम्, इमौ इमान्, इमकौ, इमकेन, इमकाभ्याम् । त्यदादिसम्बन्धिविज्ञानादिह न भवति - प्रतीदमौ प्रियेदमौ ।। ३६ ।
न्या० स० -- दो मः स्यादाविति । स्याद्यधिकारे स्यादावित्युपादानात् स्यादि-20 रेवानुवर्त्तते न किञ्चित् तद्विशेषणमित्याह - स्यादाविति ।। २. १. ३६ ।।
किमः कस्तसादौ च ।। २.१. ४० ॥
त्यदादिसम्बन्धिनि स्यादौ तसादौ च प्रत्यये परे किम्शब्दस्य स्थाने 'क' इत्यकारान्त आदेशो भवति । कः, कौ, के, कम्, कौ, कान्; केन, काभ्याम्, कैः; स्त्रियाम् - का, के, काः; काम्, के, काः; नपुंसके- के, कानि; परमक: 25 परमकौ; अकः, अकौ; साकोऽपि कः, कौ; तसादौ - कदा, कहि । तसादौ चेति