________________
[ पा० १ सू० ३६-३७.] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्याय: [ १६३
अनक ॥। २.१.३६ ॥
अन्वादेश इति निवृत्तं पृथग् योगात्, उत्तरार्थः । त्यदादिसम्बन्धिनि व्ञ्जञ्जनादौ स्यादौ परेऽग्वजित इदम् 'अद्' भवति । आभ्याम् एभि:, श्रभिः; अस्मै, अस्यै; अस्मात् अस्याः ; अस्य अस्याः ; एषाम्, आसाम् ; अस्मिन् अस्याम् ; एषु, आसु । अनिगिति किम् ? इमकाभ्याम्, इमकेभ्यः, 5 इमस्मै, इमिकस्यै, इमकेषाम् । तत्सम्बन्धिविज्ञानादिह न भवति - प्रतीभ्याम्, अतीदंसु, प्रियेदंभ्याम्, प्रियेदंसु; इह तु भवति - परमाभ्याम्, परमैभिः, परमैभ्यः, परमास्मै, परमास्यै; परमास्मात् परमास्याः; अत्र पूर्वोत्तरयोः पदयोः पूर्वं कार्ये कृते पश्चात् संधिकार्यम्, एतच्च "आतो नेन्द्रवरुणस्य" [७. ४. २६.] इत्यत्र ज्ञापयिष्यते । प्रभेदनिर्देशः सर्वादेशार्थः ।। ३६ ।। 10
न्या० स० -- अनगिति । पृथग् योगादिति - पृथग् योगारम्भादिति भावः अन्यथा साकोऽनकोऽप्यन्वादेशे पूर्वसूत्रेणैव सामान्यविधानेन सिद्धत्वात् सूत्रारम्भवैयर्थ्यमिति । अन्वादेश निवृत्तौ तत्सम्बद्धमवृत्त्यन्त इति च निवृत्तम् । ननु परमाभ्यामित्यादौ परादप्यदादेशात् समासे सति स्याद्युत्पत्तिसापेक्षत्वेन बहिरङ्गादन्तरङ्ग “प्रवर्णस्य०” [ १. २. ६. ] इत्येत्वे कृते इदम् रूपाभावाददादेशाभावः प्राप्नोतीत्याह-प्रत्रेति किञ्च, 15 परमै भिरित्यादिषु परमशब्दसम्बन्धिनाऽकारेण सह यदि एत्वलक्षणः संधिः प्रथममेव क्रियते तदा उभयस्थाने यः समुत्पद्यते स लभतेऽन्यतरव्यपदेशम् इति न्यायाद् यदा एकारस्य इदम् शब्दसम्बन्धिता तदा एकारेण सह इदमोऽत्वं स्यात्, ततः पूर्वस्य व्यञ्जनान्ततायामनिष्टरूपापत्तिः, यदा तु एत्वस्य इदम्सम्बन्धिता न भवति तदा एकारस्य स्थिति: स्यात्, इत्युभयथाप्यनिष्टापत्तिः । एतच्चेति कथमाग्नेन्द्रमित्यत्र प्रयोगे आकाराद् इन्द्र - 20 वरुणस्थस्य स्वरस्य वृद्धिर्न भवतीत्युक्तम्, ततश्च यदि पूर्वमेव सन्धिकार्यं स्यात् तदा निषेधोऽनेन व्यर्थ एवेत्यर्थः ।। २. १. ३६ ।।
टौस्यनः ॥ २.१. ३७ ॥
त्यदादिसम्बन्धिनि टायामोसि च परेऽग्वजितस्येदमः स्थाने 'अन' इत्ययमादेशो भवति । अनेन, अनया; अनयोः स्वम्, अनयोनिधेहि; परमानेन, 25 परमानयोः । त्यदादिसम्बन्धिविज्ञानादिह न भवति - प्रतीदमा, प्रतीदमोः, प्रियेदमा, प्रियेदमोः । अनक इत्येव - इमकेन, इमिकया; इमकयोः इमिकयोः ।। ३७ ।।