________________
१६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ३५.]
शीलवन्ताविमको तिष्ठत इति-अत्रापि पूर्ववद् गम्यमानोऽन्वादेशः, अथो इत्यादि तु द्योतकत्वात् क्वापि प्रयुज्यते क्वापि न । अयं दण्डो हरानेनेति-अत्र ह्यनुवादमात्रमेव न तु निभाल्यतामित्यादि विधीयते । केचित् विति-पाणिनिप्रभृतयः । अथो एनं परिवर्तयेत्येव भवति न तु कुण्डशब्दस्य नपुसकस्य विशेषणत्व एनदिति ॥ ३४ ।।
अद् व्य ञ्जने ॥२. १. ३५ ॥
इदम इति षष्ठ्यन्तमपि सर्वादेशार्थं प्रथमान्ततयेह विपरिणम्यते, त्यदादिसम्बन्धीदम्शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशे गम्यमानेऽद् भवति, अवृत्त्यन्ते, तकार उच्चारणार्थः । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता अथो आभ्यामहरप्यधीतम्, इमकैः शैक्षकैः रात्रिरधीता अथो एभिरहरप्यधीतम्, एवम्-इमकस्मै अथो अस्मै, इमिकस्यै अथो अस्यै, इमकस्मादथो अस्मात्,10 इमकस्याथो अस्य, इमकेषामथो एषाम्, इमिकस्मिन्नथो अस्मिन्, इमकस्यामथो अस्याम्, इमकेषु अथो एषु, इमिकासु अथो आसु । सौ तु परत्वादयमाद्यादेशः अथो अयं शीलवान् । केचिदेतदोऽपीच्छन्तिएताभ्यां छात्राभ्यां रात्रिरधीता अथो प्राभ्यामहरप्यधीतम्, एवम्-एतैः, एभिः, एतस्मै, अस्मै; इत्यादि । अन्वादेश इत्येव-इमकस्मै देहि । अवृत्त्यन्त इत्येव-अथो परमेमकाभ्यां रात्रि-15 रधीता। व्यञ्जन इति किम् ? अथो इमके तिष्ठन्ति । उत्तरत्र “अनक्" [२. १. ३६.] इति वचनादिह साक एव विधिः ॥ ३५ ॥
न्या० स०--अद् व्यञ्जने इति-तकार उच्चारणार्थः, अन्यथा सौ “सो रुः" [ २. १. ७२. ] इत्यादौ कृते 'ओ' इत्यनिष्टं रूपं स्यात् । प्रथमान्ततयेह विपरिणम्यत इति-अत एव कार्यो निमित्तं कार्यमिति निर्देशक्रमे प्राप्ते निमित्तात् पूर्व कार्यनिर्देशः,20 उत्तरत्र "अनक" [ २. १. ३६. ] इति प्रथमान्तविशेषणोपादानाद् वा । शैक्षकाभ्यामितिशिक्षेते इति शिक्षको, ततः स्वार्थे प्रज्ञाद्यण ; शिक्षणं शिक्षा "क्त टो गुरो०" [ ५. ३. १०६.] इत्यप्रत्ययः, ततः शिक्षां वित्तोऽधीयाते वा “पदक्रम-शिक्षा." [६. २. १२६.] इत्यकः, तत: शिक्षकावेव प्रज्ञाद्यण ; अथवा शिक्षायां भवौ “शिक्षादेश्चारण" [ ६. ३. १४८. ] इत्यरिण ततो यावादित्वात् कः । अथ सावपि व्यञ्जनादित्वात्25 कथं नायमादेश इत्याह-सौ तु परत्वादिति । केचिदिति-चान्द्र-भोज-क्षीरस्वामिप्रभृतयः । साक एव विधिरिति-विश्रान्तादौ-अन्वादेशे साको निरकश्चादादेशविधानादिहैवमपि व्याख्या-साको यद्यादेशस्तदाऽन्वादेश एवेति निरकोऽन्वादेशेऽनन्वादेशे चोत्तरेणादादेशः सिद्धः ।। २. १. ३५ ।।