________________
[पा० १. सू० ३४.]
श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १६१
न्या० स०--त्यदामेनदेतदो द्वितीयेत्यादि । त्यच्च त्यदश्च त्यदः, “त्यदादिः" [३. १. १२०.] इत्येकशेषः, “प्रा द्वरः" [२. १. ४१.] इति तु न भवति सूत्रत्वात्, शब्दार्थयोर्भेदविवक्षायां निरर्थकत्वेन त्यदादित्वाभावाद् वा। एताभ्यां रात्रिरधीतेति अत्राविवक्षितकर्मण इङ धातोर्योगे रात्रिलक्षणस्याधारस्य “काला-ऽध्व-भाव-देशं वा." [ २. २. २३. ] इति कालस्य कर्मत्वे ततश्चाधीतेत्यत्र कर्मणि क्ते सति कर्मण उक्तत्वाद् 5 रात्रिशब्दात् प्रथमा, यदिवा रात्रिसहचरितमध्ययनमपि उपचाराद् रात्रिशब्देनोच्यते ततः साऽधीतेति । अर्थात् प्रकरणाद् वेति-प्रथमादेशसापेक्षत्वादन्वादेशस्य । ननु तत्रासामर्थ्यात् 'ऋद्धस्य राज्ञः पुरुषः' इत्यादिवत् समासाभावः, सामर्थ्यात् समासश्चत् पूर्वकथ
पेक्षस्यान्वादेशस्याभाव इति परस्परविरोधाभयाभावादत्रादेशाभाव इत्याह-अर्थादित्यादि-अर्थो वा तादृशो भवतिप्रकरणं वा येन ताभ्यामेवापेक्ष्यस्य प्रथमादेशस्य निश्चितत्वाद् 10 वृत्तावेवान्तर्भावान्निरपेक्षत्वात् समासो भवति, यथा देवदत्तस्य गुरुकुलम् । वस्तुमात्रनिर्देशं कृत्वेति-अनुवादमात्रं कृत्वेत्यर्थः, तत्रापि न भवति, यथा एतमातं ङितमित्यत्र ।। ३३ ।।
इदमः ॥ २. १. ३४ ॥
त्यदादीनां सम्बन्धिन इदमित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे 'एनद्' इत्यममादेशो भवति, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनमथो एनद-15 नुजानीत, इमकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि, अत्र साकोऽप्यादेशः, सुशीलाविमौ तदेनौ गुरवो मानयन्ति, सुस्थिता इमे तदेनान् देवा अपि नमस्यन्ति; अनेन रात्रिरधीता अथो एनेनाहरप्यधीतम् ; अनयोः शोभनं शीलमथो एनयोर्महती कीत्तिः, सर्वाणि शास्त्राणि ज्ञातवन्ताविमौ अथो एनयोस्तिष्ठतो न्यः पूजाहः। द्वितीया-टौसीत्येव-मत्पुत्रको शीलवन्ताविमकौ20 तिष्ठतः । अवृत्त्यन्त इत्येव-अथो परमेमं पश्य, वृत्त्यादौ तु भवत्येव-एनमेनां वा श्रित एनच्छितकः । अन्वादेश इत्येव-चैत्रमध्यापय इमं च मैत्रम् । यत्रापि वस्तुमात्रनिर्देशं कृत्वा किञ्चिद् विधीयते तत्रापि न भवति-अयं दण्डो हरानेन फलानि । केचित् तु-इदम आदेशम् ‘एनम्' इति मकरान्तं द्वितीयकवचने आहुः, तन्मते-इदं कुण्डमानयाथो एनं परिवत येत्येव भवति । 25 योगविभाग उत्तरार्थः ।। ३४ ।।
न्या० स०--इदम इति । "टौस्यनः" [२. १. ३७. ] इति “दो म:०" [२. १. ३६.] इति च प्राप्तेऽयमपवादः। मत्पुत्रकाविति-कृत्रिमौ मत्पुत्री "तनु-पुत्राणु०" [७. ३. २३. ] इति कः, अनुकम्पो वा मत्पुत्रौ "अनुकम्पा०" [ ७. ३. ३४. ] इति कः ।