________________
[पा० १. सू० ४१-४२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६५
किम् ? किं तिष्ठति, किं पश्य, किंतराम् । त्यदादिसम्बन्धिविज्ञानादिह न भवति-प्रतिकिम्, प्रतिकिमौ, अतिकिमः; प्रियकिम्, प्रियकिमौ, प्रियकिमः । आदिशब्दस्य व्यवस्थावाचित्वात् तसादयस्थमवसाना ग्राह्याः ।। ४० ।।
___ न्या० स०--किमः क इति । न च वाच्यमिदं सूत्रं किमर्थम् ? यतः "श्रा द्वरस्तसादौ च" अग्रे "इमः" इति क्रियमाणे साकस्यानिष्टं रूपं स्यात्-ककः, ककौ। नन्वत्र 5 तसादाविति किमर्थम् ? तसि तावत् "इतोऽतः कुतः" [७. २. ६०.] इति निपातनं वक्ष्यते, सत्यम्-उत्तरार्थमिदम्, अथवा थमन्तार्थ तसादिग्रहणम्, अन्यथाऽनवधिकं ज्ञायेत । अत्र पूर्वसूत्रात् स्यादावित्यनुवर्तमानेन सह तसादावित्यस्य समुच्चयार्थश्चकारः, यथा “विशेष्यं विशेषेण०" [ ३. १. ६६. ] इत्यत्र, अत एव "पा द्वरः" [२. १. ४१ ] इत्यत्र स्यादावित्यस्यानुवृत्तिः, अन्यथा चानुकृष्टत्वान्नानुवर्तेत । थमवसाना इति-तेन किंतरामित्यादौ10 तदुत्तरेषु न भवति ।। २. १. ४० ।।
आ वेरः ।। २. १. ४१ ॥
द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्सम्बन्धिनि स्यादौ तसादौ च प्रत्यये परेऽकार आदेशो भवति । स्यः, त्यौ, त्ये ; सः, तौ, ते; यः, यौ, ये; अमू, अमी; इमो, इमे; एषः, एतौ, एते; एकः, एवम्-द्वौ, त्यकौ, परमत्यौ; 15 स्त्रियाम्-स्या, त्ये, त्याः, द्व; नपुंसके-त्ये, त्यानि, द्वे; तसादौ-ततः, तत्र, तदा, तथा, तर्हि, यतः, यत्र, यदा, यथा । त्यदादिसम्बन्धिविज्ञानादिह न भवति-अतितद्, अतितदौ, अतितदः; प्रियतद्, प्रियतदौ, प्रियतदः । श्रा द्व रिति किम् ? भवान् ।। ४१ ।।
न्या० स०--आ द्वर इति । द्वाविच्छति क्यनि क्विपि तयोर्लोपे सौ अनेनेका-20 रस्यात्वं न, त्यदादिसम्बन्धिस्याद्यभावाद् द्वीरित्येव भवति । एक इति-रूपनिर्णयार्थमिदं दर्शितं न तु किञ्चित् फलम् ।। २. १. ४१ ।।
तः सौ सः ॥ २. १. ४२ ॥
पा द्वस्त्यदादीनां सम्बन्धिनि सौ परे तकारस्य सकारादेशो भवति । स्यः, स्या, स्यकः, परमस्यः; सः, सा, सकः, परमसः; एषः, एषा, एषकः,25 परमेषः; हे स ! , हे परमस ! , हे परमैष ! । त इति किम् ? यः । साविति