________________
१५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २६.]
युष्माकं शीलम्, श्रमणा ! अस्माकं शीलम् ; श्रमणौ युवां रक्षतु धर्मः, ' श्रमणौ ! आवां रक्षतु धर्मः; श्रमणौ ! युवाभ्यां दीयते, आवाभ्यां दीयते; श्रमणौ ! युवयोः स्वम्, आवयोः स्वम् ; श्रमण ! त्वां रक्षतु तपः, मां रक्षतु तपः; श्रमण ! तुभ्यं दीयते, मह्य दीयते; श्रमण ! तव शीलम्, मम शीलम्; एष्वामन्त्र्यस्यासत्त्वाद् वस्नसादयो न भवन्ति । 'ग्रामश्चैत्र ! 5 ते स्वमथो' इत्यादौ चैत्रपदस्यामन्त्र्यस्यासत्त्वाद् ग्रामपदापेक्षयाऽन्वादेशे नित्यं ते-मयादिविधिः, न तु “सपूर्वात् प्रथमान्ताद् वा" [२. १. ३२.] इति विकल्पः । इवकरणं किम् ? श्रवणं यथा स्यात् । अामन्त्र्यमिति किम् ? धर्मो वो रक्षतु, धर्मो नो रक्षतु । पूर्वमिति किम् ? "मयैतत् सर्वमाख्यातं, युष्माकं मुनिपुङ्गवाः !" परस्य ह्यसद्वत्त्वे पादादिलक्षणः प्रतिषेधो न10 स्यात् । व्यवहितेऽपि पूर्वशब्दो वर्तते, तेन-'चैत्र ! धर्मो वोऽथो रक्षत, चैत्र ! . धर्मो नोऽथो रक्षतु' अत्र “सपूर्वात् प्रथमान्ताद् वा" [२. १. ३२.] इति विकल्पो न भवति ।। २५ ।।
न्या० स०--असदिवेत्यादि-योऽर्थः स्वेन धर्मेण प्रसिद्धो धर्मान्तरसम्बन्धं प्रत्यभिमुखीक्रियते स आमन्त्र्यः, यथा देवदत्तो देवदत्तत्वेन प्रसिद्धो धर्मान्तरेऽभिमुखीक्रियते,15 यथा पच पठेत्यादि, तत्रार्थे कार्यासंभवादुपचारादामन्त्र्याभिधायि पदमामन्त्र्यं विज्ञायत इति । अथोत्तरत्र नित्यग्रहणादस्मिन् सूत्रे कथं विकल्पो न लभ्यते इति, उच्यते-नित्यं विधास्यमानत्वादिति भणनाद् यत्रैव वस्नसादयो विधीयन्ते तत्रैव विकल्प उपतिष्ठते न वस्नसादीनां निषधे इति । अथवा यद्यत्रापि सूत्रे विकल्पः स्यात् तदा किमेतत्सूत्रकरणेन ? यत: "असदिवामन्त्र्यं पूर्वत्" [ २. १. २५. ] इति कृतेऽपि वस्नसादयो विकल्पन्ते, ते च20 "पदाद् युग्विभक्तया०" [ २. १. २१. ] इत्यनेनैव विकल्पेन भविष्यन्ति। श्रवणं यथा स्यादिति-अन्यथा लोप: स्यात् “ते लुग् वा" [३. २. १०८.] इत्यनेनैव । पादादिलक्षण इति-मुनिपुङ्गवा इत्यस्य पदस्याऽसत्त्वे पदस्याभावादित्यर्थः । मुनिपुङ्गवा इति सिंहादित्वात् समासः कर्मधारयो वा। व्यवहितेऽपीति-यथा मथुरायाः पूर्वं पाटलिपुत्रमिति । पूर्वशब्दो वर्तते इति-अयमर्थः-यद्यव्यवहितस्यैव पूर्वस्यानेनाऽसद्भावो विधीयेत25 न व्यवहितस्य तदा पूर्वग्रहणमपनीय "असदिवामन्त्र्याद्" इत्येव क्रियेत, यतः पूर्वस्याविद्यमानवद्भावे वस्नसाद्यभावः प्रयोजनम्, तच्चेत्थमपि कृते सिध्यति; तथोत्तरसूत्रेऽप्येतदानुगुण्येन “जस्विशेष्याद्" [२. १. २६. ] इत्येवं विधीयेतेति ।। २५ ।।
जस्विशेष्य वामन्ये ॥ २. १. २६ ॥ तदतद्विषयं विशेष्यम्, तस्य व्यवच्छेदकं विशेषणम् ; युष्मदस्मद्भ्यां30