________________
[पा० १. सू० २७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
,
[ १५५
पूर्वं जसन्तमामन्त्र्यं पदं विशेष्यमामन्त्र्ये पदे सामर्थ्यात् तद्विशेषणभूते परेऽसदिव वा भवति पूर्वेण नित्यं प्राप्ते विकल्प: । जिना: ! शरण्या ! युष्मान् शरणं प्रपद्ये । जिना: ! शरण्या ! वः शरणं प्रपद्ये । जिनाः ! शरण्या ! अस्मान् रक्षत । जिना: ! शरण्या ! नो रक्षत । सिद्धाः ! शरण्या ! युष्मानथो शरणं प्रपद्ये । सिद्धाः शरण्या ! वोऽथो शरणं प्रपद्ये । 5 सिद्धाः ! शरण्या अस्मानथो रक्षत । सिद्धाः ! शरण्या ! नोऽथो रक्षत । जसिति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यमिति किम् ? शरण्या : साधवो ! युष्मान् शरणं प्रपद्ये, शरण्याः ! साधवोऽस्मान् रक्षत । आमन्त्र्य इति किम् ? आचार्या ! युष्मान् शरण्याः ! शरणं प्रपद्ये, अत्रामन्त्र्यं विशेषणं व्यवहितत्वाद् न परमिति न10 भवति । सामर्थ्यात् तद्विशेषणभूत इति किम् ? आचार्या ! उपाध्याया ! युष्मान् शरणं प्रपद्ये ।। २६ ।।
न्या० स०--- जस्वि ० इत्यादि । तदतद्विषयमिति - शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैक्या वाऽर्थाभावे त्यदादित्वाभावात् तच्छब्दावयवयोगात् समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाद् वा नैकशेषः, तच्च प्रतच्च तदतदी, 15 द्वन्द्व े “आ द्व ेरः” [२. १. ४१.] इति न "न सर्वादि:" [ १. ४. १२. ] इति निषेधात् । सामर्थ्यात् तद्विशेषरणभूत इति । विशेष्यस्य विशेषरणाकाङ क्षिरण एकवाक्योपात्तत्वेन सामर्थ्यात् सन्निहितत्वाद् विशेष्यत्वनिमित्तमामन्त्र्य इत्येतदेव विशेषणं विज्ञायत इति । जिना: ! शरण्या इत्यत्र शरणमिति सामान्यकर्म, युष्मानिति विशेषकर्म । सिद्धाः ! शरण्या ! युष्मानथो शरणं प्रपद्य े इत्यादौ " सपूर्वात् ०" [२. १. ३२.] इत्यादिना वा20 वस्नसौ प्राप्तावपि "असदिवा ०" [ २.१.२५ ] इत्यनेन निषिद्धौ पुनरऽनेन विकल्प्येते । जसिति किम् ? साधो ! सुविहितेति - अत्र द्वयोरपि पदयोः "असदिवा ०" [२.१.२५ . ] इत्यसत्त्वे प्राप्ते “नान्यत् ” [ २. १. २७. ] इत्यनेन साधो ! इत्यस्यासत्त्वाभावः, “नित्यमन्वादेशे” [ २. १. ३१ ] इत्यनेन च वस्नसौ । शरण्या ! साधवो ! युष्मानिति-प्रत्र द्वयोरपि "सदिवा ०" [ २.१.२५ ] इत्यसद्वद्भावः । प्राचार्या ! युष्मान् शरण्या ! 25 इति-अत्रामन्त्रयस्य विशेष्यस्य व्यवहितत्वेन परत्रोपश्लेषाभावान्न भवति । आचार्या ! उपाध्याया ! इति - अत्र भिन्नाधिकरणयोः पदयोर्न पूर्वं विशेष्यं न परं विशेषणमिति "सामर्थ्यात् तद्विशेषरणभूते" इति भरगनान्न भवति ।। २६ ।।
नान्यत् ॥ २. १.२७ ।।
युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं पदं विशेष्यमामन्त्रये पदे तद्वि- 30